50

तथा साध्ये सत्येव उपपत्तिः साधनस्येत्येकः प्रकारः । अन्यथा साध्या
भावे अनुपपत्तिःचेति द्वितीयः प्रकारः । यथा अग्निमानयं पर्वतः त572थैव धूमवत्त्वोपपत्तेः,
अन्यथा धूमवत्त्वानुपपत्तेर्वा । एतावन्मात्रकृतः परार्थानुमानस्य भेदो न पारमार्थिकः573
स इति भेदपदेन दर्शयति ॥ ४ ॥


एतदेवाह--


नानयोस्तात्पर्ये भेदः ॥ ५ ॥


574 अनयोःतथोपपत्त्यन्यथानुपपत्तिरूपयोः प्रयोगप्रकारयोः तात्प575र्ये
576त्परः शब्दः स श577ब्दार्थः इत्येवंलक्षणे तत्परत्वे, भेदः विशेषः । एतदुक्तं भवति
अन्यद578भिधेयं शब्दस्यान्यत्प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते,
प्रकाश्यं त्वभिन्नम्, अन्वये कथिते व्यतिरेकगतिर्व्यतिरेके चान्वयगतिरित्युभयत्रापि
साधनस्य साध्याविनाभावः प्रकाश्यते । न च यत्राभिधेयभेदस्तत्र तात्पर्यभेदोऽपि ।
नहि पीनो देवदत्तो दिवा न भुङ्क्ते, पीनो देवदत्तो रात्रौ भुङ्क्ते इत्यनयोर्वाक्ययोर
भिधेयभेदोऽस्तीति तात्पर्येणापि भेत्त580व्यमिति भा582वः ॥ ५ ॥


तात्पर्याभेदस्यैव फलमाह--


अत एव नोभयोः प्रयोगः ॥ ६ ॥


यत एव नानयोस्तात्पर्ये भेदः अत एव नोभयोः तथोपपत्त्यन्यथानुपप
त्त्योर्युगपत् प्रयोगः युक्तः । व्याप्त्युपदर्शनाय हि तथोपपत्त्यन्यथानुपपत्तिभ्यां हेतोः
प्रयोगः क्रियते । व्याप्त्युपदर्शनं चैकयैव सिद्धमिति विफलो द्वयोः प्रयोगः । यदाह--


हेतोस्तथोपपत्त्या वा स्यात्प्रयोगोऽन्यथापि वा ।

द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥ न्याया॰ १७

ननु यद्येकेनैव प्रयोगेण हेतोर्व्याप्त्युपदर्शनं कृतमिति कृतं विफलेन
द्वितीयप्रयोगेण; तर्हि प्रतिज्ञाया अपि मा भूत् प्रयोगो विफलत्वात् । नहि प्रतिज्ञामात्रात्
583श्चिदर्थं प्रतिपद्यते, तथा584 सति हि विप्रतिपत्तिरेव न स्यादित्याह--


विष585योपदर्शनार्थं तु प्रतिज्ञा ॥ ७ ॥


विषयः यत्र तथोपपत्त्यान्यथानुपपत्त्या वा हेतुः स्व586साध्यसाधनाय
प्रार्थ्यते, तस्य उपदर्शनम् परप्रतीतावारोपणं तदर्थं पुनः प्रतिज्ञा प्रयोक्तव्येति शेषः ।

  1. अग्निमत्त्वे सत्येव ।

  2. --॰क इति ॰--डे॰

  3. डे॰ प्रतौ न नास्ति ।

  4. यः शब्दस्य परार्थस्तत् ता
    त्पर्यमिति भावः ।

  5. यः परः प्रकृष्टोऽर्थोऽस्य ।

  6. शब्दस्यार्थः--ता॰

  7. 578

  8. ?
  9. यस्तथोपपत्त्या विधिर्वाच्यः
    अन्यथानुपपत्त्या तु निषेधः ।

  10. ?
  11. निति580

  12. ?
  13. शेषः ।

  14. ?
  15. सूत्रार्थस्य ।

  16. क्वचिदर्थं--ता॰

  17. प्रतिज्ञामात्राद
    र्थप्रतिपत्तेः ।

  18. विषयप्रद॰--ता--मू॰

  19. स्वसाध॰--डे॰