15
विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥

तच्च तस्यानुमानत्वं पक्षधर्मादिसंभवात् ॥

प्राक्प्रतीते च सादृश्ये तदन्यत्र प्रतीतितः ।

गवये तत् प्रतीतं हि गवि व्यवहृतं न किम् ॥

गवा तु नानुमेत्येतत् कस्योपालम्भ उच्यते ।

प्रतिज्ञार्थैकदेशत्वादात्मनो दूषणं परम् ॥

परेणानभ्युपगमात् परस्य तु न दूषणम् ॥

गवयस्या134प्यसंबन्धान्न गोलिङ्गत्वमिच्छति ।135

यदि किं तावता शक्यमुपमानं प्रमान्तरम् ॥

सादृश्यमपि सर्वेण पूर्वं दृष्टं तदन्वयि ।

अवश्यं हि क्वचिद् दृष्टे सादृश्यप्रतिपत्तिमान् ॥

एकस्मिन्नपि दृष्टेऽर्थे द्वितीयं पश्यतो वने ।

सादृश्येन सहैवास्मिन् न तदोत्पद्यते मतिः136

अपूर्वदर्शनात् तत्र केवलं स्मरणोदयः ।

पूर्वपराव्यक्तभावात् प्राग्दृष्टेर्व्यवहारधीः137

सदृशोऽयमितिज्ञानं138 वासनाबलसम्भवि ।

नहि काचिदसादृश्यप्रतिपत्तिरिहेक्ष्यते139

कस्यचित् केनचित् क्वापि सोऽवश्यं सदृशग्रहः ।

न प्रमाणान्तरं140 दृष्टमुपमानं विपश्चिताम् ॥

सादृश्यं हि न वस्तुभ्यो व्यतिरेकेण विद्यते ।

व्यवहारेऽनुमानं141 तु नोपमाऽत्र प्रमान्तरम् ॥ छ ॥

नैयायिकोपमानं तु नानुमानात् पृथक् प्रमा ।

तथाहि तेन संबन्धः साध्यते नाम तद्वतोः ॥

स चास्येदमिति ज्ञाना142न्नोपमानं विनास्ति किम् ।

तथासंनिहितस्तत्र गवयस्तेन तत्र कः ॥

संकेतस्यावतारोऽस्ति नामेदमिति संभवि143

अथास्त्ययमपि न्यायः संकेतस्येति वर्ण्यते ॥

  1. Ms. गवयश्चा ।

  2. अयं श्लोकः मीमांसकोपमाने एवमेवास्ति ।

  3. Ms. मातिः ।

  4. Ms. प्राक् दृष्टेः व्यवहारधीः ।

  5. Ms. मिति विज्ञानं ।

  6. Ms. कश्चिदसादृश्यप्रतिपत्तिरिहोत्द्यते ।

  7. Ms. प्रमाणान्तराद्दृष्टमुपमानं ।

  8. Ms. मानन्तु ।

  9. Ms. ज्ञाया ।

  10. Ms. संभवी ।