16
तत्रातिदेशवाचैव संबन्धस्य विनिश्चयः ।

सदृशस्तस्य बुद्धिस्थो144 यथैव प्रतिभासते ।

गवये145 तत्र संकेतः सामान्येन गतो न किम् ॥

अतद्रूपपरावृत्ते146 वस्तुमात्रे हि सर्वदा ।

संकेतो गृह्यते पुम्भिर्न विशेषस्य संभवः ॥

न विशेषः सदैवास्ति प्रत्यक्षप्रतिपत्तिभाक् ।

तत्र संकेतकरणं व्यर्थमेवोपजायते ॥

अयं स गवयार्थश्चेद्147 विशेषेणेति गम्यते ।

यदि न व्यवहारोऽस्ति संकेतग्रहणागतः ।

प्रत्यक्षदृष्टेः संकेतग्रहणेनापि किं तदा ॥

परं प्रति व्यवहृतौ सामान्यं स्यात्तथा सति ।

सामान्येन च संबन्धग्रहणादतिदेशतः--।

अयं स गवयः पश्चाद्विशेषमवगच्छति ॥

अनुमानमिदं मुख्यं सामान्यव्याप्तिपूर्वकम् ।

तत्र विशेषग्रहणं148 धूमादग्न्यनुमानवत् ॥

महानसे हि संबन्धः सामान्येन प्रतीयते ।

पक्षधर्मत्वतः पश्चाद्विशिष्टाग्निपरिग्रहः ॥

सामान्येन हि संबन्धे विशेषेऽनुमितिः कथम् ।

अन्येन योगग्रहणे कथमन्यः प्रतीयते ॥

विचारितमिदं सर्वैर्वस्तुवृत्तं महारथैः ।

अतद्रूपपरावृत्तं149 वस्तुसामान्यमुच्यते ॥

अन्तर्भाव्य विशेषं हि सामान्यव्याप्तिराप्यते ।

अवश्यं तत्र वस्त्वस्ति किंचिदेवाविशेषितम् ॥

तस्मादनुमितिन्यायः समस्त उपमास्वपि ।

अङ्गदी कुण्डली यस्तु150 स राजेति प्रतीयताम् ॥

विशेषेण हि संबन्ध151प्रतीतौ किं प्रमान्तरम् ।

शृङ्गादिसामान्यगतेस्तेनायं सदृशः पुनः ॥

  1. Ms. बुद्धिस्था ।

  2. Ms. गवयस्तत्र ।

  3. Ms. सतद्रूपपरावृत्ते ।

  4. Ms. गवयार्थश्चेत् ।

  5. Ms. विशेष षं तत्र ग्रहणं । अयं पाठोऽशुद्धः--विशेषे तत्रग्रहणमिति तु कथंचिद्भवितुमर्हति विशेषं तत्र गृह्णाति इति वा ।

  6. Ms. परावृत्तम्वस्तु ।

  7. Ms. यो तु ।

  8. Ms. संबन्धं प्रतीतौ ।