तृतीयः परिच्छेदः


प्रमाणषट्क-विज्ञातो यत्रार्थोऽनन्यथाभवन् ।

अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता ॥

ननु दृष्टः152 श्रुतो वार्थ इति भाष्यकृतो वचः ।

तत्कथं दृष्टिमात्रेण सार्थापत्तिर्निरूपिता ॥

दृष्टः पञ्चभिरित्यस्माद्भेदेनोक्ता श्रुतोद्भवा ।

प्रमाणग्राहिणीत्वेन यस्मात्पूर्वविलक्षणा ॥

तत्र प्रत्यक्षतो ज्ञात्रा देहदाहेन153 शक्तिता ।

वह्नेरनुमिता154 सूर्ये भा155नात्तच्छक्तियोगिता ॥

पीनो दिवा न भुङ्क्ते156चेत्येवमादि वचः श्रुतौ ।

रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ॥

गवयोपमिताया गोस्तज्ज्ञानग्राह्यशक्तता157

अभिधानप्रसिद्ध्यर्थमर्थापत्त्यवबोधिता158

शब्दे वाचकसामर्थ्यात् तन्नित्यत्वस्य कल्पना ।

प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् ॥

गेहाच्चैत्रबहिर्भाव159सिद्धिर्या त्विह वर्ण्यते ।

18
तामभावोत्थितामन्यामर्थापत्ति160मुदाहरेत् ।

पक्षधर्माद्यनङ्गत्वाद्भिन्नैषाऽप्यनुमानतः ॥

बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते ।

प्रमेये यो गृहाभावः पक्षधर्मस्त्वसौ कथम् ॥

तदभावविशिष्टं हि गृहं धर्मो न कस्यचित् ।

गृहाभावविशिष्टस्तु तदासौ नैव गम्यते ॥

पूर्वं न चाविशिष्टस्य धर्मिणः स्यात् प्रमेयता ।

न चात्र बाह्यदेशो वा चैत्रो वा गम्यते पुरा ॥

जीवतस्तु गृहाभावः पक्षधर्मोऽत्र कल्प्यते161

तत्संवित्तिर्बहिर्भावे162 नव्यबुद्धौ163प्रजायते ॥

अग्निसत्तानपेक्षा हि धूमसत्ता164 प्रतीयते ।

तद्ग्रहणस्य वेलायामग्न्यधीनत्वविन्न वा ॥

गेहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः ।

स मृतेष्वपि दृष्टत्वाद्बहिर्वृत्ते165र्न साधकः ॥

विद्यमानत्वसंसृष्टगेहाभावधियानया ।

गेहादुत्का166लितश्चैत्रो विद्येत बहिरेव हि ॥

गेहाभावत्वमात्रं167 तु यत् स्वतन्त्रं प्रतीयते ।

न तावता बहिर्भावश्चैत्रस्यैवं प्रसिध्यति ॥

स्थिते सद्भावविज्ञाने गेहाभावधियाऽत्र तु ।

गेहादुत्कालिता सत्ता बहिरेवावतिष्ठते ॥

तेनात्र निरपेक्षस्य168 व्यभिचारो मृतादिना ।

यस्य त्वव्यभिचारित्वं न ततोऽन्यत्प्रतीयते ॥

तस्मात् प्रत्यक्षतो गेहे चैत्राभावेऽप्यभावतः ।

ज्ञाने यत् तत्त्वविज्ञानं169 तदेवेदं बहिस्थितम् ॥

पक्षधर्मात्मलाभाय बहिर्भावप्रवेशितः ।

तद्विशिष्टोऽनुमेयः स्यात् पक्षधर्मत्ववादिभिः ॥

19
पक्षधर्मादिविज्ञानं बहिः संबोधतो यदि ।

तैश्च तद्बोधनेत्येवमन्योन्याश्रयता च170 तत् ॥

अन्यथानुपपत्तौ तु प्रमेयानुप्रवेशिता ।

ताद्रूप्येणैव विज्ञानान्न दोषः प्रतिभाति नः ॥

अविनाभाविता चात्र तदैव परिकल्प्यते ।

न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥

गृहाभाव-बहिर्भावौ न च दृष्टौ नियोगतः ।

साहित्येन प्रमाणं हि तयोरन्य171न्न विद्यते ॥

अन्यथानुपपत्त्यैव ह्यनेनान्यत्प्रतीयतेनान्यत् प्रतीयते

अन्यत्प्रतीयते तच्चेत् साहित्यं न प्रतीयते ॥

तेन संबन्धवेलायां संबन्ध्यन्यतरो ध्रुवम् ।

अर्थापत्त्यावगन्तव्यः पश्चाद्वस्त्वनुमानता172

अत्रोच्यते परोक्षार्थादन्यथानुपपत्तितः ।

परोक्षकल्पना सैव ह्यर्थापत्तिः परोदिता ॥

अन्यथानुपपन्नत्वं तत्रासिद्धस्य नेक्ष्यतेतत्रासिद्धस्य नेक्षते

प्रमाणेन प्रसिद्धो यः स कथं नोपपत्तिमान् ॥

प्रसिद्धोऽनुपपन्नश्चेत्येतदत्यन्तदुर्घटम् ।

न दृष्टेऽनुपपन्ने173हि प्रसिद्धिर्भुवनत्रये ॥

यदि न स्यात् परोऽप्यत्र स्यादेवानुपपन्नता ।

न चेत् साऽप्यत्रनचेत् साऽप्यत्र नास्माकमत्यन्तानुपपत्तिधीः ॥

ननु चानुपपन्नत्वमेतदन्यव्यपेक्षया ।

प्रत्यक्षसिद्धं धूमादौ संबन्धग्रहणं विना ॥

तथा चेदनुमानेनतथाचेदनुमानेन किं कर्त्तव्यं परेण वः ।

अथ संबन्धबोधेन विना नानुपपत्तिधीः ॥

अर्थापत्तावपि तथेत्यर्थापत्तिर्वृथा तथा ।

कार्यहेतौ न दृष्टं चेत् संबन्धग्रहणं विना ॥

अन्यथानुपपन्नत्वमर्थापत्तौ तु दृश्यते ॥

नन्वर्थापत्तिरप्येषा कार्यादेवोपजायते ।

शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः ॥

20
शक्तौ हि समानायां संबन्धग्रहणं विना ।

ज्ञायतेऽनुपपन्नत्वं तत्र कः प्रतिषेधकः ॥

यो यथा गृह्यते भावः स तथैवोपपत्तिमान् ।

अन्यथा दृश्यमानं हि शक्तः कः कर्त्तुमन्यथा ॥

प्रतीतिरनुगन्तव्या पर्यन्ते सर्ववादिभिः ।

प्रतीत्युत्क्रमणे वादी न वादी वादिसंसदि ॥

अत्रोच्यते,--यथा दृष्टपदार्थावगमे सति ।

शक्तेरकल्पनं प्राप्तं दृश्यन्ते सशक्तिकाः ॥

यावन्तो यादृशा ये च यदर्थप्रतिपादने ।

वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥

अन्यथानुपपत्तिश्च भवत्यर्थमिति प्रति ।

तदेवास्या निमित्तं स्यात् जायते यदनन्तरम् ॥

इति यत् स्वयमेवोक्तं घटोऽयं स्फोटदूषणे ।

तत्कथं स्मर्यते नैवाचिरकालव्यतीतिमत् ॥

अथाप्यकल्पना स्फोटे शक्तिमात्रेण सिद्धितः ।

शक्तिं विना तु तत्कार्यं कुत एव भविष्यति ॥

कारणादेव तत्कार्यं वृथा शक्तेः प्रकल्पना ।

शक्तिं विना कथं कार्यमशक्तेरपि भाविकम् ॥

दृश्यतेऽन्यां विना शक्तिं सर्वां शक्तिं विना न किम् ॥

अथैकप्रत्ययो दृष्टस्तदेतद्बालजल्पितम् ।

न शक्तिप्रत्ययेऽप्येषा भासते तत् कुतः परा ॥

न शक्तिरितिबोधस्य विविक्ताकारसंगतिः175

अथापि व्यक्तिरस्येति व्यतिरेकोपलम्भनम् ॥

कायः शिलापुत्रस्येति व्यतिरेकगतिर्न किम् ।

176 स्वरूपावभासित्वे व्यतिरेकगतिः क्वचित् ॥

अथापि मन्त्रतन्त्रादेरग्नेः किं प्रतिपद्यते ।

यदि नास्ति परा शक्तिरग्निरूपे हि न क्षतिः ॥

तस्मादपैति यद्यस्मिन् सति तद् व्यतिरेकि177 तत् ।

अन्यथा तस्य हानिः स्यात् कार्यं वा यत्ततो178 न सत् ॥

21
अर्थापत्तिः प्रमाणं चे179दन्योन्याश्रयता भवेत् ।

कल्पनामात्रमेवैतत् प्रमाणं केन तन्मतम् ॥

ननु शक्तिं विना कार्ये कारणानां ग्रहः कथम् ।

अस्मात् कार्यं भवतु तद्व्यवहारोऽस्तु तावता ॥

कार्यार्थित्वादुपादानं180 न शक्यार्थितया क्वचित् ।

अनेन सर्वशक्तीनां प्रत्याख्यातिरनिन्दिता ॥

तद्रूपदर्शनात् शक्तिव्यवहारः प्रसाध्यताम् ।

एवमन्योऽपि वृक्षादिर्व्यवहारस्य गोचरः ॥

स्वभावहेतुरेवं च नानुमानत्ववर्जनम् ।

कार्ये दर्शनतः शक्ति181व्यवहारः कुकृतः पुरा ॥

इहापि कार्यं दृष्ट्वैव182 कार्य दृष्ट्यैव व्यवहार प्रसाध्यताम् ।

शब्दादर्थप्रसिद्धिश्च न संबन्धः183 पुरा कृतः ॥

संकेताच्च प्रतीतिः सा कथं संबन्धसाधिका ।

संकेतो व्यञ्जकः शक्तेरन्वितस्य ध्वनेः सदा ॥

न संकेतसहस्रेऽपि प्रतिपत्तिरशक्तितः ।

कार्यकारणभावोऽयमेवमेवं सदा स्थितः ॥

तदा व्यञ्जनाभासत्वे184 संकेतस्योपमा185 कुतः ।

न च वाक्यार्थसंवित्तिस्तस्य संबन्धिता कुतः ॥

विकल्पे ननु संबन्धः कार्यकारणभावभाक् ।

तस्मान्न शब्दजा युक्त सार्थापत्तिः सदर्थिका ॥

नैवार्थापत्तिजाप्येषा नित्यसंबन्धसाधिका ।

सांकेतितोऽपि संबन्धो नित्यकार्यस्य साधकः ॥

अनित्यत्वाद्विघातश्चेदन्यथा186 दृश्यते न किम् ।

संकेतस्य परित्यागे187 नैवार्थ188प्रत्ययः क्वचित् ॥

अभावपूर्विकाप्येषा नार्थापत्ति प्रमान्तरम् ।

अभावोऽनुपलब्धि189त्वादनुमानात्परो न हि ॥

22
न चार्थापत्तिरप्येषा बहिर्भावस्य साधिका ।

अनुमानमियं यस्मादेत190त्पश्चाद्वदिष्यते ॥

पीनो दिवा न भुङ्क्ते वेत्येवमादि वचः श्रुतौ ।

रात्रिभोजनविज्ञानं कार्यं हेतोर्भविष्यति ॥

ननु वाक्यान्तर परि ज्ञाने कार्यहेतुरयं च कः

किं वाक्यान्तरकार्यत्वं191 वाक्यस्य परमार्थतः ॥

पीनो दिवा न भुङ्क्ते वेत्येतद्वाक्यं श्रुतेः पुरा192

रात्रिभोजनवाक्यस्य गतिरस्ति परिस्फुटा ॥

तत्त्वेव193मुच्यते सद्भिर्भो194वक्रोक्तेरियं गतिः ।

वक्रोक्तिनिपुणो योऽन्यः स एवागच्छति ध्रुवम्

अन्यस्य तमभिप्रायमात्मवत्195 परिगच्छतः ।

वाक्यान्तरविवक्षायामेतद्वाक्यप्रवर्त्तनम् ॥

यथा मम तदेवेत्येवमनुमानमतिः स्फुटा ।

कथं हेतुसमुत्पन्नमन्यथा तत्र हीयते ॥

या त्वभावोत्थिता कैश्चिदर्थापत्तिरुदाहृता ।

पक्षधर्मादिसद्भावा196न्न भिन्ना साऽनुमानतः ॥

बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते ।

प्रमेयो यो गृहाभावस्तत्र धर्मः197198 निश्चितः ॥

यदि नस्यात् बहिर्भावो गृहे199ऽभावः कथं भवेत् ।

एवमव्यभिचारित्वं गृहसंबन्धवेदनम् ॥

तेन रूपत्रयप्राप्तेरनुमानं न संशयः ॥

धर्म्यत्र देवदत्तादि कुतश्चित् कार्यतो गतिः ।

बहिर्भावस्ततः कार्यात् प्रसिद्धो देशविभ्रमात् ॥

देशसामान्यसंबन्धादेव तत्राप्रसिद्धितः ।

अनुमानप्रसिद्धोऽपि धर्मी भवति कुत्रचित् ॥

अनुमानान्तरं तत्र यतो नैव विचार्यते ।

तदभावविशिष्टं हि गृहं धर्म्यत200 एव हि ॥

23
गृहाभावविशिष्टो हि तदासौ वचसो गतः ।

पूर्वं नैवागृहीतस्य धर्मिणो201ऽत्र प्रतीतता202

तथा हि बाह्यदेशो वा चैत्रो वागम्यते पुरा ।

जीवतो हि गृहाभावः पक्षधर्मोऽत्र कल्पितः ॥

तत्संवित्तिर्बहिर्भावं वाचो203 बुद्ध्वा हि जायते ।

अग्निमात्रां विना यद्वत् धूमवत्ता204 प्रतीयते ॥

न तद्ग्रहणवेलायामग्न्यधीनं205 हि किंचन ॥

गेहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः ।

स मृतेष्वपि दृष्टत्वाद् बहिर्वृत्तेर्न206 साधकः ॥

विद्यमानत्वसंसृष्टगेहाभावधियाऽत्र तु ।

गेहादुत्कालितश्चैत्रो207 विद्यते बहिरेव हि ॥

जीवतस्तु गृहाभावः प्रसिद्धो यदि नेष्यते ।

अर्थापत्तिरपि प्राप्ता न प्रमाणं तथा सति ॥

स्थिते सद्भावविज्ञाने गेहाभावधियात्र तु ।

गेहादुत्कालिता सत्ता बहिरेवेत्यसद्वचः ॥

स्थिते सद्भावविज्ञाने नार्थापत्तेः प्रमाणता ।

जीवतो हि गृहाभावो यावत् सिध्येन्न208 तत्त्वतः ॥

न तावता बहिर्भावः शक्यः कल्पयितुं परैः ।

येनात्र निरपेक्षस्य व्यभिचारो मृतादिना ॥

ननु यो व्यभिचारित्वं निरूप्येच्छति साधनम् ।

तस्यायं व्यभिचारोऽस्तु नानुमामनिच्छतः ॥

यस्य त्वव्यभिचारित्वं साध्यादन्यन्न वाञ्छितम् ॥

जीवतो हि गृहाभावो यस्य सिद्धो न वादिनः ।

तस्य प्रत्य क्षतो गेहे चैत्रार्भावेऽप्यभावतः ॥

ज्ञाने यत् सत्त्वविज्ञानं तदेव न हि स्थितम् ।

सत्त्वविज्ञानमेवात्र स्वस्तिमात्रान्न209 सिध्यति ॥

24
गेहाभावाद210सद्भावो नाभावाद्भावसाधनम् ।

अभावं साधयन्नेव स भावं साधयेत् कथम् ॥

प्रत्यक्षं साधयेद्भावं यथा भावं न साधयेत् ।

प्रत्यक्षमनुमानं च न भावे साधनं यथा ॥

विपर्ययस्य नैवात्र साधनत्वं विपर्यये ।

अभावेऽननुमानेन तत्सत्तैव समाश्रिता211

अभावो भाव एवेति बहिर्भावो भवेद् यदि ।

अर्थापत्तेर्न सर्वत्रेत्येव212मन्योन्यसंश्रयः ॥

यावन्नाभावसंकोचस्तावदेषा न वर्त्तते

यावदेषानवर्त्तेताऽभावसंकोचिका कुतः ॥ ?

एतयैव भवेत्स चेत् संदेहोऽपि भवेत्क्वचित् ।

तस्माज्जीवित्व213संसिद्धेरर्थापत्ति प्रसिध्यति ।

अर्थापत्तिप्रसिद्धौ214 वा जीविता215ऽन्योन्यसंश्रयः ॥

पक्षधर्मात्मलाभाय बहिर्भाव प्रवेशितः ।

तद्विशिष्टोऽनुमेयः स्यात् पक्षधर्मान्वयोदितः ॥

पक्षधर्मादिविज्ञानं बहिःसंबोधतो यदि ।

तैश्च तद्बोधनेत्येवमन्योन्याश्रयता भवेत् ॥

अन्यथानुपपत्तौ तु प्रमेयानुप्रवेशिता ।

ताद्रूप्येणैव विज्ञानान्न दोष प्रतिभाति नः ॥

उक्तमत्र यथात्रापि सोऽन्योन्याश्रयसंभवः ।

प्रमेयानुप्रवेशस्तु216 न सिद्धः साधकः कथम् ॥

ताद्रूप्येणैव विज्ञानं किं तद्वचनमात्रकात् ॥

निर्विवेकस्याकल्पापि यदि नाम न217 भासते218

दोषः किं तावता नास्ति तथाचेन्नाजितं जडैः ॥

मद्यमाननं219यस्य दौर्गन्ध्यं प्रतिभासते ।

यदि किं तावता तत्र दौर्गन्ध्यस्य न संभवः ॥

25
अविनाभाविता220 चात्र तदैव यदि कल्प्यते ।

न प्रागवगतेत्येवं221 सत्यप्येषा न कारणम् ॥

अविनाभावितैवात्र प्रागेव परिनिश्चिता ।

तदैवावगता222 नेयमिति केन न कारणम् ॥

पूर्वदेशानवस्थान223मन्यदेशस्थितिं विना ।

न दृष्टमेकसामग्य्रा … … …

दृष्टौहि समाजकालस्थौ नामग्रामौ224 तुलात्तयोः ।?

गृहाभावबहिर्भावौ न 225सापेक्षौ नियोगतः ॥

अन्या स्थाने प्रतीतिस्तु नियमेनैव जायते ।

प्रतीत्या सति226 साहित्ये प्रमाणं किं227 न विद्यते ॥

अन्यथानुपपत्त्यैव नैकेनान्यः228 प्रतीयते ।

प्रत्यक्षानुमयोरेव229 प्रामाण्यमिह विद्यते ॥

तथा न कल्प्यतेच्चेत् साहित्यं किं230 न सिध्यति ।

न च संबन्धवेलायां संबन्ध्यन्यतरो231 ध्रुवम् ॥

अर्थापत्त्यावगन्तव्यः पश्चादस्त्यनुमानता ॥

योऽत्यन्तमन्त्रजडधीर्न विवेकभाजि,

तत्त्वे प्रवर्त्तनमुपैति न मे कथंचित् ।

अन्यस्य तस्य न जआनुमतेर्विशेष-

स्तस्य स्खलद्गति निवर्त्तनमेतदस्तु ॥

इति प्रमाणान्तर्गतौप्रमाणान्तर्गतौ तृतीयोऽर्थापत्तिपरिच्छेदः ॥ छ ॥

  1. Ms. दृष्टश्रुतो ।

  2. Ms. ज्ञाता देहाद्देहेन ।

  3. Ms. रनुमितात् ।

  4. Ms. पाना ।

  5. Ms. नभुङ्क्तेत्येवमादि ।

  6. Ms. गोस्तज्ज्ञानग्रह्य ।

  7. Ms. मर्थाप त्रबोधिता ।

  8. Ms. गेहाश्चै बवहिर्भाव ।

  9. Ms. मदाहरेत् ।

  10. Ms. कल्पते ।

  11. Ms. बहिर्भावं ।

  12. Ms. बुद्धौपजायते ।

  13. Ms. चत्ता ।

  14. Ms. बहिवृत्तेन ।

  15. Ms. गेहादुक्त्त्वात ।

  16. Ms. मात्रन्तु ।

  17. Ms. नरपेक्षस्य ।

  18. Ms. विज्ञानन्तदेवेदं ।

  19. Ms. य ।

  20. Ms. रन्यं न ।

  21. Ms. पश्चाद्वस्त्वस्त्वनुमानता ।

  22. Ms. ऽनुपपन्नं हिः ।

  23. Ms. सङ्गतिः ।

  24. Ms. नच ।

  25. Ms. व्यतिरेक ।

  26. Ms. मसत्ततो ।

  27. Ms. चे अन्योन्या ।

  28. Ms. कार्याच्छित्वादुपाशनं न शक्यर्थि ।

  29. Ms. शक्त ।

  30. Ms. कार्यदृष्ट्वैव ।

  31. Ms. न संबन्धः शक्तिक्षेपात् पुराकृतः ।

  32. Ms. भासम ।

  33. Ms. पता ।

  34. Ms. चेत् अन्यथा ।

  35. Ms. परित्यागो ।

  36. Ms. नैवार्थः ।

  37. Ms. लब्धत्वात् ।

  38. Ms. देह । दिह इति भवितुमर्हति ।

  39. Ms. कार्यत्वम्वाक्यस्य ।

  40. Ms. परा ।

  41. Ms. तंत्रे च ।

  42. Ms. र्भावक्रोक्ते ।

  43. Ms. आत्मयत् ।

  44. Ms. भावात् न ।

  45. Ms. धर्म ।

  46. Ms. सन्निश्चितः ।

  47. Ms. गृहे भावः ।

  48. Ms. धर्मोऽत एव हि ।

  49. Ms. धर्मणो ।

  50. Ms. प्रतीयता ।

  51. Ms. वा वाचो ।

  52. Ms. प्रमवत्ता ।

  53. Ms. वेलायामत्याधीन ।

  54. Ms. दृष्टत्वात् बहिर्वृत्तेन साधकः ।

  55. Ms. गेहादुत्कलिततश्चैत्रो ।

  56. Ms. सिद्धेन ।

  57. Ms. मात्रान ।

  58. Ms. भावामसद्भावो ।

  59. Ms. सिसाश्रिता ।

  60. Ms. सर्वत्रेत्येन ।

  61. Ms. ज्जीवत्व ।

  62. Ms. प्रसिद्धे ।

  63. Ms. जीवंते ।

  64. Ms. प्रमेयार्थानु प्रवेशस्तु ।

  65. Ms. 8 म ।

  66. Ms. भाषते ।

  67. Ms. मधमानं नमन्य

  68. Ms. भाविना ।

  69. Ms. प्रागेवतेत्येवं ।

  70. Ms. तदैवापगता ।

  71. Ms. स्थानं अन्यदेश ।

  72. Ms. नामी ग्रामौ ।

  73. Ms. नापेक्षौ ।

  74. Ms. सत ।

  75. Ms. किन्न ।

  76. Ms. नैकोनान्य ।

  77. Ms. प्रत्यक्षानुमानयोरेव ।

  78. Ms. किन्न ।

  79. Ms. सन्ध्यतरो ध्रुवम् ।

  80. Ms. नातन्यप्रतीयते ।