18
तामभावोत्थितामन्यामर्थापत्ति160मुदाहरेत् ।

पक्षधर्माद्यनङ्गत्वाद्भिन्नैषाऽप्यनुमानतः ॥

बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते ।

प्रमेये यो गृहाभावः पक्षधर्मस्त्वसौ कथम् ॥

तदभावविशिष्टं हि गृहं धर्मो न कस्यचित् ।

गृहाभावविशिष्टस्तु तदासौ नैव गम्यते ॥

पूर्वं न चाविशिष्टस्य धर्मिणः स्यात् प्रमेयता ।

न चात्र बाह्यदेशो वा चैत्रो वा गम्यते पुरा ॥

जीवतस्तु गृहाभावः पक्षधर्मोऽत्र कल्प्यते161

तत्संवित्तिर्बहिर्भावे162 नव्यबुद्धौ163प्रजायते ॥

अग्निसत्तानपेक्षा हि धूमसत्ता164 प्रतीयते ।

तद्ग्रहणस्य वेलायामग्न्यधीनत्वविन्न वा ॥

गेहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः ।

स मृतेष्वपि दृष्टत्वाद्बहिर्वृत्ते165र्न साधकः ॥

विद्यमानत्वसंसृष्टगेहाभावधियानया ।

गेहादुत्का166लितश्चैत्रो विद्येत बहिरेव हि ॥

गेहाभावत्वमात्रं167 तु यत् स्वतन्त्रं प्रतीयते ।

न तावता बहिर्भावश्चैत्रस्यैवं प्रसिध्यति ॥

स्थिते सद्भावविज्ञाने गेहाभावधियाऽत्र तु ।

गेहादुत्कालिता सत्ता बहिरेवावतिष्ठते ॥

तेनात्र निरपेक्षस्य168 व्यभिचारो मृतादिना ।

यस्य त्वव्यभिचारित्वं न ततोऽन्यत्प्रतीयते ॥

तस्मात् प्रत्यक्षतो गेहे चैत्राभावेऽप्यभावतः ।

ज्ञाने यत् तत्त्वविज्ञानं169 तदेवेदं बहिस्थितम् ॥

पक्षधर्मात्मलाभाय बहिर्भावप्रवेशितः ।

तद्विशिष्टोऽनुमेयः स्यात् पक्षधर्मत्ववादिभिः ॥

  1. Ms. मदाहरेत् ।

  2. Ms. कल्पते ।

  3. Ms. बहिर्भावं ।

  4. Ms. बुद्धौपजायते ।

  5. Ms. चत्ता ।

  6. Ms. बहिवृत्तेन ।

  7. Ms. गेहादुक्त्त्वात ।

  8. Ms. मात्रन्तु ।

  9. Ms. नरपेक्षस्य ।

  10. Ms. विज्ञानन्तदेवेदं ।