19
पक्षधर्मादिविज्ञानं बहिः संबोधतो यदि ।

तैश्च तद्बोधनेत्येवमन्योन्याश्रयता च170 तत् ॥

अन्यथानुपपत्तौ तु प्रमेयानुप्रवेशिता ।

ताद्रूप्येणैव विज्ञानान्न दोषः प्रतिभाति नः ॥

अविनाभाविता चात्र तदैव परिकल्प्यते ।

न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥

गृहाभाव-बहिर्भावौ न च दृष्टौ नियोगतः ।

साहित्येन प्रमाणं हि तयोरन्य171न्न विद्यते ॥

अन्यथानुपपत्त्यैव ह्यनेनान्यत्प्रतीयतेनान्यत् प्रतीयते

अन्यत्प्रतीयते तच्चेत् साहित्यं न प्रतीयते ॥

तेन संबन्धवेलायां संबन्ध्यन्यतरो ध्रुवम् ।

अर्थापत्त्यावगन्तव्यः पश्चाद्वस्त्वनुमानता172

अत्रोच्यते परोक्षार्थादन्यथानुपपत्तितः ।

परोक्षकल्पना सैव ह्यर्थापत्तिः परोदिता ॥

अन्यथानुपपन्नत्वं तत्रासिद्धस्य नेक्ष्यतेतत्रासिद्धस्य नेक्षते

प्रमाणेन प्रसिद्धो यः स कथं नोपपत्तिमान् ॥

प्रसिद्धोऽनुपपन्नश्चेत्येतदत्यन्तदुर्घटम् ।

न दृष्टेऽनुपपन्ने173हि प्रसिद्धिर्भुवनत्रये ॥

यदि न स्यात् परोऽप्यत्र स्यादेवानुपपन्नता ।

न चेत् साऽप्यत्रनचेत् साऽप्यत्र नास्माकमत्यन्तानुपपत्तिधीः ॥

ननु चानुपपन्नत्वमेतदन्यव्यपेक्षया ।

प्रत्यक्षसिद्धं धूमादौ संबन्धग्रहणं विना ॥

तथा चेदनुमानेनतथाचेदनुमानेन किं कर्त्तव्यं परेण वः ।

अथ संबन्धबोधेन विना नानुपपत्तिधीः ॥

अर्थापत्तावपि तथेत्यर्थापत्तिर्वृथा तथा ।

कार्यहेतौ न दृष्टं चेत् संबन्धग्रहणं विना ॥

अन्यथानुपपन्नत्वमर्थापत्तौ तु दृश्यते ॥

नन्वर्थापत्तिरप्येषा कार्यादेवोपजायते ।

शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः ॥

  1. Ms. य ।

  2. Ms. रन्यं न ।

  3. Ms. पश्चाद्वस्त्वस्त्वनुमानता ।

  4. Ms. ऽनुपपन्नं हिः ।

  5. Ms. नातन्यप्रतीयते ।