यथा शब्दे शास्त्रेष्टमाकाशाश्रयत्वं बाधमानस्य2195 वादीष्टमनित्यत्वं साध
यतोपि कृतकत्वस्य विरुद्धत्वं प्रतिज्ञाविरोधो वाभिधीयते । कृतकं हि क्षणिकं ।
न च क्षणिकमुत्पादानन्नरं क्षणमप्यस्ति । ततः
कृतकत्वमाकाशाश्रयत्वबाधनं ।
तथा कृतकत्वात् शब्दस्य नाशे साध्य2196माने गन्धस्य2197 कृतकत्वान्नश्वरस्य
भूगुणताया ः पृथिव्याश्रिततायाः शास्त्रेष्टायाश्च क्षतेः । विपर्यासनात् हेतुः प्रय
431 त्नानन्तरीयकत्वादि2198
विरुद्धः स्यात् । प्रतिज्ञा --- विरुद्धा स्यात् । उपात्तो हेतुः
वादिनानिष्टं शास्त्रेष्टं बाधत इत्येव यदि विरुद्धः तदा गन्धभूगुणतां बाधमानस्य
कृतकत्वस्यं शब्दे विरुद्धता स्यात् । शास्त्रेष्टबाधकताया अ
विशेषात् । (४४)
-
आकाशस्य नित्यत्वात् तदाश्रितञ्च नित्यं स्यात् । तदनित्यत्वेन बाध्यते ।
↩ -
वैशेषिककृता यथा शब्दे आकाशगुणत्वमिष्टं एवं गन्धे पृथिवीगुणत्वमपीति कोत्र विशेषो येनैकत्र हेतुप्रतिज्ञादोषो नान्यत्रेति भावः अप्रकृतत्वाच्चेदत्रापि समानं । अनेन वेदापौरुषेयवादीनं प्रत्युक्तनित्यः शब्दः कृतकत्वात् जलादिवत् । गन्धेपि कृतकत्वादनित्यत्वे भूगुणत्वक्षतेः ।
↩ -
धर्मिणः
↩ -
कृतकत्वादिरादिना ।
↩