446 लब्धः साक्षादस्यैव प्रमाण
स्य शास्त्रस्यात्यन्तपरोक्षार्थे विचारः प्रस्तूयते प्रेक्षै
र्नानस्य । ततः शास्त्रस्ववचनयोः प्रामाण्येऽभ्युपगतेपि साम्यमुक्तं ॥ (९४)
साम्यमेव पुनः किमर्थमुपदर्शितामित्याह (।)
हि यस्मात् तत्प्रस्तावस्य विचारप्रक्रमस्याश्रयत्वेऽधिकरणत्वे सति शास्त्रं
सिद्धे धर्मिणि शास्त्रं प्रतिज्ञार्थविरुद्धंबाधकं न वस्तुबलप्रवृत्तानुमानमित्यमुमर्थं
वक्तुमस्य शास्त्रस्य स्व
वाचा साम्यस्य दृष्टये दर्शनार्थं सहोक्तिरनयोरभ्युपाय
तानिर्देशे । स्ववचनमपि ह्युच्चारणसामर्थ्यादु2236पगतप्रामाण्यं सिद्धे धर्मिणि
विचारप्रक्रमे प्रतिज्ञार्थविषयबाधकं बाधकं दृष्टं (।) न वस्तुबलप्रवृत्तानुमानेन
इदमनयोः साम्यदर्शनप्रयोजनं । (९५)
अत्र शास्त्रवचनयोः व्याघातेना चा र्ये णोदाहरणमपि सदृशमभिन्नं वर्ण्णितं ।
यथा न सन्ति प्रमाणानि प्रमेयार्थानीति । कथं पुनरत्र शास्त्रार्थस्ववचनाभ्यां
व्याघात इत्याह । प्रमाणानामभावे हि शास्त्रवाचोरयोगातः । अनुपपत्तेः
प्रमाणसम्भवे हि शास्त्रवचनयोः परप्रतिपादनार्थमुक्तिर्युक्ता । तस्मादुच्चारण
सामर्थ्यादभ्युपगतप्रामाण्यात् प्रयोगवचनादेव प्रमाणाभावप्रतिज्ञा बाध्यते ।
एतच्चोदाहरणम् (।)
स्ववाग्विरोधे स्ववचनव्याहतौ
विस्पष्टं तथा हि प्रमाणाभावप्रतिज्ञा
वचनोच्चारणसामर्थ्याभ्युपगतप्रामाण्येन वचनेनैव बाध्यते । आगमे शास्त्रे
पुनरुदाहरणस्य दिङ्मात्रदर्शनमुपलक्षणमात्रमेतत् । न तु मुख्यमुदाहरणं ।
प्रमाणस्य धर्मिण आगमसिद्धत्वाभावात् । इदं पुनर्मुख्यमुदाहरणं आगमे प्रेत्य पर
लोके धर्मोऽसुखप्रदः (।) आगमसिद्धे धर्मिणि धर्मे सामान्येऽसुखप्रदत्व
स्य
विशेषस्य सुखप्रदत्वेन विरुद्धेनागमसिद्धेन बाधनात् । (९७)
किन्तु (।)
-
स्वाप्रामाण्यबोधेनुच्चारणात् ।
↩