उदाहारणमप्यत्र सदृशं तेन वर्णितम् ।
प्रमाणानामभावे हि शास्त्रवाचोरयोगातः ॥ ९६ ॥

अत्र शास्त्रवचनयोः व्याघातेना चा र्ये णोदाहरणमपि सदृशमभिन्नं वर्ण्णितं ।

यथा न सन्ति प्रमाणानि प्रमेयार्थानीति । कथं पुनरत्र शास्त्रार्थस्ववचनाभ्यां
व्याघात इत्याह । प्रमाणानामभावे हि शास्त्रवाचोरयोगातः । अनुपपत्तेः
प्रमाणसम्भवे हि शास्त्रवचनयोः परप्रतिपादनार्थमुक्तिर्युक्ता । तस्मादुच्चारण
सामर्थ्यादभ्युपगतप्रामाण्यात् प्रयोगवचनादेव प्रमाणाभावप्रतिज्ञा बाध्यते ।

एतच्चोदाहरणम् (।)

स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे ।
दिङ्मात्रदर्शनं तत्र प्रत्येधर्मोसुखप्रदः ॥ ९७ ॥

स्ववाग्विरोधे स्ववचनव्याहतौ
विस्पष्टं तथा हि प्रमाणाभावप्रतिज्ञा
वचनोच्चारणसामर्थ्याभ्युपगतप्रामाण्येन वचनेनैव बाध्यते । आगमे शास्त्रे
पुनरुदाहरणस्य दिङ्मात्रदर्शनमुपलक्षणमात्रमेतत् । न तु मुख्यमुदाहरणं ।
प्रमाणस्य धर्मिण आगमसिद्धत्वाभावात् । इदं पुनर्मुख्यमुदाहरणं आगमे प्रेत्य पर
लोके धर्मोऽसुखप्रदः (।) आगमसिद्धे धर्मिणि धर्मे सामान्येऽसुखप्रदत्व
स्य
विशेषस्य सुखप्रदत्वेन विरुद्धेनागमसिद्धेन बाधनात् । (९७)