किन्तु (।)

447
शास्त्रिणोप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि ।
न बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः ॥ ९८ ॥

शास्त्रिणोऽभ्युपगतशास्त्रस्यातदालम्बे शास्त्रासिद्धे2237 प्रमाणसिद्धे वस्तुनि धर्मिणि शास्त्रप्रतिज्ञाविरुद्धस्य धर्मस्योक्तौ न सा बाधा । यथा मी मां स क स्य
गृहीतशास्त्रस्य प्रत्यक्षसिद्धे शब्दे धर्मिणि कृतकत्वादनित्यत्वोक्तावपि शास्त्र
प्रतिज्ञातेन नित्यत्वेन न बाधा । यदि बाधा किन्तर्हि भवतीत्याह । प्रतिबन्धः

स्यात्
 । कस्मादित्याह । तुल्यकक्षत्वात् । समबलत्वात् । यथा माता मे बन्ध्या
चेति स्ववाचि तुल्यकक्षत्वात् पदयोः परस्परं प्रतिबन्धः । (९८)

  1. यो न शास्त्रेण दर्शितः ।