447
शास्त्रिणोप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि ।
न बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः ॥ ९८ ॥

शास्त्रिणोऽभ्युपगतशास्त्रस्यातदालम्बे शास्त्रासिद्धे2237 प्रमाणसिद्धे वस्तुनि धर्मिणि शास्त्रप्रतिज्ञाविरुद्धस्य धर्मस्योक्तौ न सा बाधा । यथा मी मां स क स्य
गृहीतशास्त्रस्य प्रत्यक्षसिद्धे शब्दे धर्मिणि कृतकत्वादनित्यत्वोक्तावपि शास्त्र
प्रतिज्ञातेन नित्यत्वेन न बाधा । यदि बाधा किन्तर्हि भवतीत्याह । प्रतिबन्धः

स्यात्
 । कस्मादित्याह । तुल्यकक्षत्वात् । समबलत्वात् । यथा माता मे बन्ध्या
चेति स्ववाचि तुल्यकक्षत्वात् पदयोः परस्परं प्रतिबन्धः । (९८)

ननु स्ववचनयोस्तुल्यकक्षत्वाद् युक्तः प्रतिबन्धः । आगमस्ववचनयोस्तुल्य
बलतैव कथमित्याह ।

यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् ।
तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम् ॥ ९९ ॥

तच्च शास्त्रं नित्यत्वप्रतिज्ञातस्य वादिनः तदा प्रसिद्धे धर्मिणि शास्त्रविरुद्ध-90a
प्रतिज्ञासमये स्वोपगमस्वीकृतप्रमाणत्वात् स्ववचनात्मकं 2238 जा
तं वचनं शास्त्रञ्च
स्वयमभ्युपगतप्रामाण्ययुक्तं तुल्यकक्षं यथा स्ववाचि माता मे बन्ध्येति वचन
मात्रयोः प्रतिबन्धोन्योन्यं । तयोः शास्त्रवचनयोर्व्विरूद्धार्थाभिधायिनोर्मध्ये यस्य
प्रमाण
मनुवर्त्तकमस्ति तत् प्रमाणवत् । अन्यस्याप्रमाणकस्य बाधकं भवति । यथा
ऽनित्यत्वं नित्यस्य शब्दे । (९९)

प्रतिज्ञामनुमानं वा प्रतिज्ञाऽपेतयुक्तिका ।
तुल्यकक्षा यथार्थम्वा बाधेत कथमन्यथा ॥ १०० ॥

अन्यथा यदि प्रमाणसिद्धे धर्मिणि प्रमाणाननुगृहीतयोः परस्परं बाधा । प्रमा
णाभावे केनेतरस्य नाबाधेतीष्यते तदा प्रतिज्ञाविपरी
ता शास्त्रवचनाख्याऽपेत
युक्तिका
प्रतिज्ञा प्रमाण्याभ्युपगमात् तुल्यकक्षा सती कथं बाधेत । यथा शब्दे
नित्यत्वप्रतिज्ञा शास्त्रोक्ता अनित्यत्वप्रतिज्ञां विद्यमानमनुमानम्वा यथार्थं । वस्तुभूत
कृतकत्वलिङ्गसमुत्थं नित्यत्वप्रतिज्ञया कथं बाधितं 2239स्यादनित्यत्वात् । (१००)

  1. यो न शास्त्रेण दर्शितः ।

  2. इति वचनात्मत्वाविशेषः ।

  3. अपि च आगमानां प्रामाण्यं प्रागेव निवारितमिति कुतो बाधा । तस्माच्छास्त्रमभ्युपगम्य धर्मविचारेष्वयन्दोषः शास्त्रबाधाख्य इष्यते ।