ननु स्ववचनयोस्तुल्यकक्षत्वाद् युक्तः प्रतिबन्धः । आगमस्ववचनयोस्तुल्य
बलतैव कथमित्याह ।

यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् ।
तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम् ॥ ९९ ॥

तच्च शास्त्रं नित्यत्वप्रतिज्ञातस्य वादिनः तदा प्रसिद्धे धर्मिणि शास्त्रविरुद्ध-90a
प्रतिज्ञासमये स्वोपगमस्वीकृतप्रमाणत्वात् स्ववचनात्मकं 2238 जा
तं वचनं शास्त्रञ्च
स्वयमभ्युपगतप्रामाण्ययुक्तं तुल्यकक्षं यथा स्ववाचि माता मे बन्ध्येति वचन
मात्रयोः प्रतिबन्धोन्योन्यं । तयोः शास्त्रवचनयोर्व्विरूद्धार्थाभिधायिनोर्मध्ये यस्य
प्रमाण
मनुवर्त्तकमस्ति तत् प्रमाणवत् । अन्यस्याप्रमाणकस्य बाधकं भवति । यथा
ऽनित्यत्वं नित्यस्य शब्दे । (९९)

  1. इति वचनात्मत्वाविशेषः ।