448
प्रामाण्यमागमानाञ्च प्रागेव विनिवारितम् ।
अभ्युपायविचारेषु तस्माद् दोषोयमिष्यते2240 ॥ ॥
तस्माद् विषयभेदस्य दर्शनार्थं पृथक्कृतः ।
अनुमानाबर्हिर्भूतोप्यभ्युपायः प्रबाधनात् ॥ १०२ ॥
तस्मात् कार्यलिङ्गत्वादनुमानादबहिर्भूतोप्यभ्युपायो विषयस्य भेदो नानात्वं
तद्दर्शनार्थमनुमानात् पृथक्कृतः । अनु
मानं सर्व्वत्र बाधकं शास्त्रन्तु शास्त्रा
श्रये धर्मिणीति बाधकत्वविषयभेदोपदर्शनं पृथक्करणफलं । कथं ज्ञायतेऽनुमाना
बहिर्भूतं शास्त्रमित्याह । स्वसिद्धे धर्मिणि स्वोपगमविरुद्धस्य धर्मस्य प्रबाधनात् न ह्यप्रमाणम्बाधकं । प्रमाणञ्चाप्रत्यक्षत्वात् अनुमानमेव ॥ (१०१,१०२)
-
नास्ति वृत्तौ ॥
↩