तस्मात् कार्यलिङ्गत्वादनुमानादबहिर्भूतोप्यभ्युपायो विषयस्य भेदो नानात्वं
तद्दर्शनार्थमनुमानात् पृथक्कृतः । अनु
मानं सर्व्वत्र बाधकं शास्त्रन्तु शास्त्रा
श्रये धर्मिणीति बाधकत्वविषयभेदोपदर्शनं पृथक्करणफलं । कथं ज्ञायतेऽनुमाना
बहिर्भूतं शास्त्रमित्याह । स्वसिद्धे धर्मिणि स्वोपगमविरुद्धस्य धर्मस्य प्रबाधनात् न ह्यप्रमाणम्बाधकं । प्रमाणञ्चाप्रत्यक्षत्वात् अनुमानमेव ॥ (१०१,१०२)
अन्यथा यदि विषयभेदोपदर्शनफलं पृथक्करणं नेष्यते तदा प्रभेददर्शनार्थं
वक्तव्यं । तथा
च कार्यस्वभावानुपलम्भानां प्रभेदो यावत् 2241 सम्भवं वाच्य
इत्यतिप्रसङ्गः स्यात् ।
अथ सदपि भेदान्तरं नोच्यते तदाऽनुमानाच्छास्त्रस्य पृथक् कृतेर्व्यर्थता वा स्यात् । प्रभेदवचनस्याविवक्षितत्वात् । सामान्यवचनस्यानुमानेनैव सिद्धत्वात् ।
यदि विषयभेदोपदर्शनार्थमनुमानात् पृथग्वचनं शास्त्रस्य तदाभ्युपगमात् स्वव
चनमाचार्येण किमर्थं पृथक्कृतं (न्यायमु खे) । यथा सर्व्वमु
क्तं मृषेति (।)
तथा औलूक्यस्य नित्यः शब्द इति ।
अत्राह (।)
स्ववाच्यपि भेदः स्ववचनस्यापि शास्त्रात् पृथक्करणं अप्रमाणकं वचनं
वाङ्मात्रं तस्मिन् प्रतिबन्धः । उच्चारणसामर्थ्यादभ्युपगतप्रामाण्यं स्ववचनं ।
अन्यथोच्चारणमेव न स्यात् । सत्यार्थता च प्रामाण्यं तन्मृषार्थतया वाच्यया
निषेध्यत इति तुल्यकक्षतया प्रतिबन्ध एवानयोर्न बाधा । तदेनं वाक्यं स्वार्थं
प्र
तिबध्नाति । वाक्यान्तरनिर्दिष्टम्वस्तु शास्त्रमित्यनयोर्भेद इत्युक्तं । (१०३)
स्यादेतत् (।)