449
तेनाभ्युपागमाच्छास्त्रं प्रमाणं सर्ववस्तुषु ।
बाधकं, यदि नेच्छेत् स बाधकं किम्पुनर्भवेत् ॥ १०४ ॥

शास्त्रस्य तेन वादिनाभ्युपगमात् सर्व्वत्र वस्तुषु धर्मिषु शास्त्रसिद्धे वस्तुबल
प्रवृत्ते प्रमाणनिश्चितेषु च शास्त्रं प्रमाणं सत् बाधकमेव स्यात् (।) विपरीत
प्रतिज्ञाया न प्रतिबन्धकं । तत्कथं प्रमाणीकृतशास्त्रस्य मीमान्सकस्य शब्दे प्रत्य
क्षसिद्धे कृतकत्वादनित्यत्वप्रतिज्ञायाः साध्यमानायाः शास्त्रेण प्रतिब
न्धो न
बाधेत्युक्तं । 2242 अथ वादी यदि शास्त्रं प्रमाणं नेच्छेत् तदा किं पुनर्द्धर्मस्यासुख
प्रदत्वस्य बाधायां प्रमाणं भवेत् । न ह्यप्रमाणं क्वचित् प्रमाणीकृतशास्त्रस्य शब्दे
प्रत्यक्षसिद्धे भवितुमर्हति । (१०४)

धर्मस्य सुखप्रदत्वेन निर्देशादसुखप्रदत्वे साध्ये स्ववचनविरोध एवेति चेत् ।
एवं तर्हि (।)

स्ववाग्विरोधेऽभेदः स्यात् स्ववाक्शास्त्रविरोधयोः ।
पुरुषेच्छाकृता चास्य परिपूर्ण्णा प्रमाणता ॥ १०५ ॥

स्ववाग्विरोधेऽभ्युपगम्यमाने स्ववाक्शास्त्रविरोधयोरभेद एव स्यात् ।
द्वयो
रभ्युपगमसिद्धप्रमाणत्वात् । 90b पुरुषेच्छाकृता चास्य शास्त्रस्य परिपूर्ण्णा
प्रमाणते
त्युपहसति । सत्यप्यागमस्ववचनयोरभ्युपगमाहितप्रामाण्यादभेदे भेद
दर्शननिमित्तञ्चोक्तं । (१०५)

यस्माच्छास्त्रं तत्सिद्ध एव धर्मिणि लिङ्गे च बाधकं न तु प्रमाणसिद्धेपि ।

तस्मात् प्रसिद्धष्वर्थेषु शास्त्रत्यागेपि न क्षतिः ।
परोक्षेष्वागमाऽनिष्टौ न चिन्तैव प्रवर्त्तते ॥ १०६ ॥

तस्मात् प्रत्यक्षानुमानाभ्यां प्रसिद्धेषु धर्मिलिङ्गसाध्यसम्बन्धादिषु सत्सु
शास्त्रत्यागेपि न क्षतिः2243 । यथा शब्दकृतत्वानित्यत्वसम्बन्धादिषु प्रमाणसि-

द्धेषु शास्त्रस्याकाशगुणत्वप्रतिपादकस्य त्यागेपि नानिष्टं । परोक्षेषु धर्मा
धर्मादिषु 2244 पुनरागमस्य प्रमाणत्वेनानिष्टौ चिन्तैव न प्रवर्त्तते(।) नह्यसिद्धे धर्मिणि विचारः । (१०६)

ननु शास्त्रञ्चेन्न प्रमाणं कथन्तत्सिद्धे धर्मिणि लिङ्गादौ वा विचार इत्याह ।

  1. सिद्धान्ती बन्धाति ।

  2. इष्टाप्रतिबन्धात् ।

  3. आगमो ग्राह्य एव ।