धर्मस्य सुखप्रदत्वेन निर्देशादसुखप्रदत्वे साध्ये स्ववचनविरोध एवेति चेत् ।
एवं तर्हि (।)
स्ववाग्विरोधेऽभेदः स्यात् स्ववाक्शास्त्रविरोधयोः ।
पुरुषेच्छाकृता चास्य परिपूर्ण्णा प्रमाणता ॥ १०५ ॥
स्ववाग्विरोधेऽभ्युपगम्यमाने स्ववाक्शास्त्रविरोधयोरभेद एव स्यात् ।
द्वयो
रभ्युपगमसिद्धप्रमाणत्वात् । 90b पुरुषेच्छाकृता चास्य शास्त्रस्य परिपूर्ण्णा
प्रमाणतेत्युपहसति । सत्यप्यागमस्ववचनयोरभ्युपगमाहितप्रामाण्यादभेदे भेद
दर्शननिमित्तञ्चोक्तं । (१०५)