ननु शास्त्रञ्चेन्न प्रमाणं कथन्तत्सिद्धे धर्मिणि लिङ्गादौ वा विचार इत्याह ।

450
विरोधोद्भावनप्राया परीक्षाप्यत्र तद्यथा ।
अधर्ममूलं रागादि स्नानञ्चाधर्मनाशनम् ॥ १०७ ॥

अत्र शास्त्रे परीक्षापि या क्रियते सा पूर्व्वापराभ्यां विरोधोद्भावनप्राया न वास्तवी तद्यथाऽधर्मस्य मूलं रागादीति क्वचिदुक्तं स्नानञ्चा2245धर्म
नाशन-2246
मित्यत्रोच्यमानम्विरुणद्धि । रागादयो हि पापनिदानं न च निदानाविरोधे निदा
निनो बाधा । तत्कथं रागाद्यविरोधि स्नानं पापविरोधि स्यात् ।2247 अप्रमाणे शास्त्रे
विरोधोद्भावनप्रायापि चिन्ता कस्मात् प्रवर्त्त्यते इति चेत् । दानादिचेतनानां
प्रवृत्तेर्महानुसंशा(? शंसा)श्रवणात् (।) हिंसादिचेतनानां महापापश्रवणाच्च
(।) अपेक्षितफलेषु दानादिष्वयं पुरुषः प्रवृत्तिका
मो नागमप्रामाण्यमनाश्रित्या
सितुं समर्थः । (१०७)

  1. जपहोमादि ।

  2. चित्तमन्तर्गतं दुष्टं ती(र्थ)स्नानैर्न शुध्यति ।

    शतशोपि तद्धौतं क्षुराभाण्डमिवाशुचि ॥

    पुनः

    गङ्गाद्वारे कुशावर्ते विल्वकीनीलपर्वते ।

    स्नात्वा कनखले तीर्थे सम्भवेन्न पुनर्भवे ॥

  3. यद्यन्निदानं न बाधते तन्न तद्बाधकं यथा श्लेष्मणो मधुरादि ॥ येन यन्निदान बाधनास्तेभ्यः तन्निवृत्तिर्यथा शीलं दुश्चरितस्य समाधिः पर्यवस्थानस्य । प्रज्ञाऽनुशयस्य बाधिका ।