अत्र शास्त्रे परीक्षापि या क्रियते सा पूर्व्वापराभ्यां विरोधोद्भावनप्राया न वास्तवी तद्यथाऽधर्मस्य मूलं रागादीति क्वचिदुक्तं स्नानञ्चा2245धर्म
नाशन-2246 मित्यत्रोच्यमानम्विरुणद्धि । रागादयो हि पापनिदानं न च निदानाविरोधे निदा
निनो बाधा । तत्कथं रागाद्यविरोधि स्नानं पापविरोधि स्यात् ।2247 अप्रमाणे शास्त्रे
विरोधोद्भावनप्रायापि चिन्ता कस्मात् प्रवर्त्त्यते इति चेत् । दानादिचेतनानां
प्रवृत्तेर्महानुसंशा(? शंसा)श्रवणात् (।) हिंसादिचेतनानां महापापश्रवणाच्च
(।) अपेक्षितफलेषु दानादिष्वयं पुरुषः प्रवृत्तिका
मो नागमप्रामाण्यमनाश्रित्या
सितुं समर्थः । (१०७)
(६) प्रतीतिबाधा ।
ततः (।)
यच्छास्त्रं दृष्टे प्रमाणे-विषये युक्त्या प्रत्यक्षाद्याख्यया न बाध्यते । अदृष्टे प्रमाणविषये च स्ववाचाऽगमाश्रये2248णानुमानेन न बाध्यते (।) तत्प्रमाणत्वेनादृष्टे
विषये प्रवृत्तिकामस्य ग्राह्यं न तु यत्किञ्चिदित्यनेन प्रयोजनेन शास्त्रे विरोधो
द्भावनप्राया चिन्ता प्रवर्त्त्यते । (१०८)
शास्त्रस्ववचनविरोधौ व्याख्यातौ ।
-
जपहोमादि ।
↩ -
चित्तमन्तर्गतं दुष्टं ती(र्थ)स्नानैर्न शुध्यति ।
शतशोपि तद्धौतं क्षुराभाण्डमिवाशुचि ॥
पुनः
गङ्गाद्वारे कुशावर्ते विल्वकीनीलपर्वते ।
स्नात्वा कनखले तीर्थे सम्भवेन्न पुनर्भवे ॥
↩ -
यद्यन्निदानं न बाधते तन्न तद्बाधकं यथा श्लेष्मणो मधुरादि ॥ येन यन्निदान बाधनास्तेभ्यः तन्निवृत्तिर्यथा शीलं दुश्चरितस्य समाधिः पर्यवस्थानस्य । प्रज्ञाऽनुशयस्य बाधिका ।
↩ -
अत्यन्तपरोक्षे ।
↩