(६) प्रतीतिबाधा ।
ततः (।)
शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते ।
दृष्टेऽदृष्टेपि तद् ग्राह्यमिति चिन्ता प्रवर्त्त्यते ॥ १०८ ॥
यच्छास्त्रं दृष्टे प्रमाणे-विषये युक्त्या प्रत्यक्षाद्याख्यया न बाध्यते । अदृष्टे प्रमाणविषये च स्ववाचाऽगमाश्रये2248णानुमानेन न बाध्यते (।) तत्प्रमाणत्वेनादृष्टे
विषये प्रवृत्तिकामस्य ग्राह्यं न तु यत्किञ्चिदित्यनेन प्रयोजनेन शास्त्रे विरोधो
द्भावनप्राया चिन्ता प्रवर्त्त्यते । (१०८)
-
अत्यन्तपरोक्षे ।
↩