शास्त्रस्ववचनविरोधौ व्याख्यातौ ।
451(क. आप्तलक्षणम्)
प्रतीतिबा
धां व्याख्यातुमाह ।
इष्टशब्दाभिधेयत्वस्याभिमतवाच्यत्वस्य पुरुषेच्छानुरोधिनः पुरुषेच्छाधीनस्या
र्थेष्वप्रतिषिद्धत्वात् (।) न हि पुरुषेच्छायामपि शशी चन्द्रशब्दं वाचकतया न
स्वीकरोति । ततश्चात्रेष्टशब्दाभिधेयत्वे विषये आप्तो व्यवहर्त्ता जनोऽक्षतवाग
प्रतिषिद्धेष्टवचनः । अनेन शब्देनायमर्थो मयाऽभिधातव्य इति कल्पनाविषयत्व
मिष्टशब्दाभि
धेयत्वं । तत्र च पुरुषस्यारोपेण स्वेच्छाधीना वचनप्रवृत्तिः । तस्मा
दिष्टशब्दाभिधेयत्वबाधः पक्षीक्रियमास्तेनैव स्वसम्वेदनसिद्धेन बाध्यते । (१०९)