451

(क. आप्तलक्षणम्)

प्रतीतिबा
धां व्याख्यातुमाह ।

अर्थेष्वप्रतिषिद्धत्वात् पुरुषेच्छानुरोधिनः ।
इष्टशब्दाभिधेयस्याप्तो वाक्षतवाग्जनः ॥ १०९ ॥

इष्टशब्दाभिधेयत्वस्याभिमतवाच्यत्वस्य पुरुषेच्छानुरोधिनः पुरुषेच्छाधीनस्या
र्थेष्वप्रतिषिद्धत्वात् (।) न हि पुरुषेच्छायामपि शशी चन्द्रशब्दं वाचकतया न
स्वीकरोति । ततश्चात्रेष्टशब्दाभिधेयत्वे विषये आप्तो व्यवहर्त्ता जनोऽक्षतवाग
प्रतिषिद्धेष्टवचनः । अनेन शब्देनायमर्थो मयाऽभिधातव्य इति कल्पनाविषयत्व
मिष्टशब्दाभि
धेयत्वं । तत्र च पुरुषस्यारोपेण स्वेच्छाधीना वचनप्रवृत्तिः । तस्मा
दिष्टशब्दाभिधेयत्वबाधः पक्षीक्रियमास्तेनैव स्वसम्वेदनसिद्धेन बाध्यते । (१०९)

उक्तः प्रसिद्धशब्देन धर्मस्तद्व्यवहारजः ।
प्रत्यक्षादिमिता मानश्रुत्यारोपेण सूचिताः ॥ ११० ॥

चन्द्रश्चन्द्र इत्यादिशब्दव्यवहाराज्जातो धर्मः कल्पनाविषयो योग्यताख्य
आचार्येण प्रसिद्धशब्देन तद्यथा शाब्दप्रसिद्धेनेत्यादिनोक्तः । शाब्दी प्रसिद्धिर्व्यवहारः
शाब्दप्रसिद्धिः तद्भवो विषयः शाब्दप्रसिद्धः ते
न बाधेत्यर्थः । न केवलमिहैव
प्रत्यक्षादिबाधास्वपि मानश्रतौ2249 मेयस्यारोपेण प्रत्यक्षादिभ्यामनुमानागमाभ्यां
मितार्था एव विरोधिनो वाचकत्वे पक्षस्य सूचिताः । (११०)

न हि प्रत्यक्षानुमाने पुरुषचित्तवर्तिनी आगमश्च बाध्यमाने धर्मिणि सम्भ
वन्ति2250 । तदुपलब्धतद्धर्म्माः सन्तो युज्यन्ते बाधकास्तस्मात्(।)

तदाश्रयभुवामिच्छानुरोधादनिषेधिनाम् ।
कृतानामकृतानां च योग्यं विश्वं स्वभावतः ॥ १११ ॥

तस्य लोकस्याश्रयेण भुवां भवतां शब्दानां व्यावहारिकाणां
इच्छानुरोधिनां(अ)91a
ऽर्थेषु वाचकत्वप्रवृत्तेः कारणात् क्वचिदपि विषयेऽनिषेधिनां निषेधरहितानां कृतानां
संकेतितानामसंकेतितानाञ्च विश्वमिदं वाच्यत्वेन स्वभावादेव योग्यं ॥ (१११)

ख. योग्यता प्रसिद्धिशब्दार्थ;

यतश्चेष्टशब्दाभिधेयत्वयोग्यता सर्व्वत्र सम्भवति । अतो विशेषानपेक्षणाद् (।)

  1. नेह प्रत्यक्षाबाधकं किं त्वेतैर्मिताः प्रत्यक्षानुमानशास्त्रं परिच्छिन्नाः श्रावणत्वादयः प्रतिज्ञार्थस्य । प्रत्यक्षातिश्रुतौ श्रावणत्वाद्यारोपेण ।

  2. एषः (?।) तत्रोपलब्धात् तस्य च धर्मा (ः) ।