उक्तः प्रसिद्धशब्देन धर्मस्तद्व्यवहारजः ।
प्रत्यक्षादिमिता मानश्रुत्यारोपेण सूचिताः ॥ ११० ॥

चन्द्रश्चन्द्र इत्यादिशब्दव्यवहाराज्जातो धर्मः कल्पनाविषयो योग्यताख्य
आचार्येण प्रसिद्धशब्देन तद्यथा शाब्दप्रसिद्धेनेत्यादिनोक्तः । शाब्दी प्रसिद्धिर्व्यवहारः
शाब्दप्रसिद्धिः तद्भवो विषयः शाब्दप्रसिद्धः ते
न बाधेत्यर्थः । न केवलमिहैव
प्रत्यक्षादिबाधास्वपि मानश्रतौ2249 मेयस्यारोपेण प्रत्यक्षादिभ्यामनुमानागमाभ्यां
मितार्था एव विरोधिनो वाचकत्वे पक्षस्य सूचिताः । (११०)

  1. नेह प्रत्यक्षाबाधकं किं त्वेतैर्मिताः प्रत्यक्षानुमानशास्त्रं परिच्छिन्नाः श्रावणत्वादयः प्रतिज्ञार्थस्य । प्रत्यक्षातिश्रुतौ श्रावणत्वाद्यारोपेण ।