अर्थमात्रानुरोधिन्या तया शब्दयोग्यतया भाविसंकेतापेक्षया भाविन्या ।
अतीतसंकेतापेक्षया भूतयापि वा व्यवस्थि
तया तामेव (योग्यतां प्रतिरुन्धानः
।
यथाऽचन्द्रः शशी सत्वादिति बाध्यते) । (११२)
योग्यताबलादेव वस्तुतः सामर्थ्यात् सर्व्वः संकेतितोऽसंकिततश्च ध्वनिरस्यां
योग्यतायां घटितः सम्बद्धः साक्षात् वाचकत्वेन तस्मिन् शब्देऽप्रतीतेपि वस्तुनि
अप्रातिकूल्यलक्षणस्य योग्यत्वस्य सर्व्वदा स्थितेः । यत एवं ततस्तस्या योग्य
तायः शब्दप्रसिद्धताचार्येणोक्ता । यद् यत्र समर्थ तदसंमुखीभावेपि तत् तेन
व्यपदिष्य (? श्य)ते यथा पाचक इति । समर्थञ्च वस्त्विष्टशब्दाभिधे
यत्व इति कृत्वा शाब्दप्रसिद्ध इति । (११३)
अन्यथा यदि शब्दोऽसंमुखीभवन्नपि योग्यतायां न सम्बद्धः । तदेह शब्दयो
ग्यताप्रतिषेधे कर्त्तव्ये बाधाहेतोरचन्द्रः शशी सत्वादेरित्यादेरसाधारणतोक्ता न
स्यात् । सर्व्वस्य चन्द्रशब्दयोग्यत्वे सपक्षाभावात्मत्वसाधारणं स्यान्नान्यथा ।
शब्दार्थे योग्यतालक्षणे कल्पितेऽनक्षवृत्तितः । अक्षवृत्त्यभावात् । प्रत्यक्षबाधकमिति
तस्या योग्यताया निषेधोनुमानात् स्यात् । (११४)
तत्र योग्यताप्रतिषेधे कर्त्तव्ये सर्व्वेषां हेतूनां सपक्षाभावात् असाधारणता2251 कथमेतदित्याह (।) यत्र साध्ये सत्त्वमपि लिङ्गं सर्व्ववस्तुव्यापि नाऽन्वयि साधा
रणं भवति तत्रान्यस्य का कथेति हेतोः कृतक2252त्वस्योदाहार आचार्येस्यैवं फलः
सर्व्वहेत्वसाधारणत्वप्रतिपादनप्रयोदनो मतः । (११५)