तद्योग्यताबलादेव वस्तुतो घटितो ध्वनिः ।
सर्व्वोस्यामप्रतीतेपि तस्मिंस्तत्सिद्धता ततः ॥ ११३ ॥

योग्यताबलादेव वस्तुतः सामर्थ्यात् सर्व्वः संकेतितोऽसंकिततश्च ध्वनिरस्यां
योग्यतायां घटितः सम्बद्धः साक्षात् वाचकत्वेन तस्मिन् शब्देऽप्रतीतेपि वस्तुनि
अप्रातिकूल्यलक्षणस्य योग्यत्वस्य सर्व्वदा स्थितेः । यत एवं ततस्तस्या योग्य
तायः शब्दप्रसिद्धताचार्येणोक्ता । यद् यत्र समर्थ तदसंमुखीभावेपि तत् तेन
व्यपदिष्य (? श्य)ते यथा पाचक इति । समर्थञ्च वस्त्विष्टशब्दाभिधे

यत्व इति कृत्वा शाब्दप्रसिद्ध इति । (११३)