असाधारणता न स्यात् बाधाहेतोरिहान्यथा ।
तन्निषेधोऽनुमानात् स्याच्छब्दार्थेऽनक्षवृत्तितः ॥ ११४ ॥
अन्यथा यदि शब्दोऽसंमुखीभवन्नपि योग्यतायां न सम्बद्धः । तदेह शब्दयो
ग्यताप्रतिषेधे कर्त्तव्ये बाधाहेतोरचन्द्रः शशी सत्वादेरित्यादेरसाधारणतोक्ता न
स्यात् । सर्व्वस्य चन्द्रशब्दयोग्यत्वे सपक्षाभावात्मत्वसाधारणं स्यान्नान्यथा ।
शब्दार्थे योग्यतालक्षणे कल्पितेऽनक्षवृत्तितः । अक्षवृत्त्यभावात् । प्रत्यक्षबाधकमिति
तस्या योग्यताया निषेधोनुमानात् स्यात् । (११४)