असाधारणता तत्र हेतूनां यत्र नान्वयि ।
सत्त्वमित्यस्योदाहारो हेतोरेवं कुतो मतः ॥ ११५ ॥

तत्र योग्यताप्रतिषेधे कर्त्तव्ये सर्व्वेषां हेतूनां सपक्षाभावात् असाधारणता2251 कथमेतदित्याह (।) यत्र साध्ये सत्त्वमपि लिङ्गं सर्व्ववस्तुव्यापि नाऽन्वयि साधा
रणं भवति तत्रान्यस्य का कथेति हेतोः कृतक2252त्वस्योदाहार आचार्येस्यैवं फलः
सर्व्वहेत्वसाधारणत्वप्रतिपादनप्रयोदनो मतः । (११५)

  1. सर्वः शब्दो योग्यतायां स्वभावतो घटत इति न कश्चिदचन्द्रोस्ति सपक्षो यत्र वृत्तं लिङ्गमन्वयि स्यात् ।

  2. अथवाऽसाधारणत्वादनुमानाभाव इत्यस्यामन्योर्थः । योऽचन्द्रत्वं प्रतिजानीते तं प्रति ब्रुवतो लोकस्यानुमानेत्युच्यते तावन्तावनिष्टौ कथमन्यत्रेष्टिः स्यात् ॥