453 कथं गम्यते
सर्व्वेषां शब्दानां सर्व्वत्रार्थे सिद्धिरित्याह ।

संकेतसंश्रयाः शब्दाः स चेच्छामात्रसंश्रयः ।
नासिद्धिः शब्दसिद्धानामिति शाब्दप्रसिद्धिवाक् ॥ ११६ ॥

सङ्केतमन्तरेण वाचकादृष्टेः संकेतसंश्रयाः शब्दाः स च संकेतः पुरुषेच्छामात्र
संश्रयः
(।) तदतिरिक्तस्यापेक्षणीयस्याभावात् । तस्माच्छब्दसिद्धानामभिधे
यत्वादीनां क्वचिदप्यर्थे नासिद्धिः । इति हेतोः शाब्दप्रसिद्धिराचार्यस्य ॥ (११६)