453 कथं गम्यते
सर्व्वेषां शब्दानां सर्व्वत्रार्थे सिद्धिरित्याह ।
सङ्केतमन्तरेण वाचकादृष्टेः संकेतसंश्रयाः शब्दाः स च संकेतः पुरुषेच्छामात्र
संश्रयः (।) तदतिरिक्तस्यापेक्षणीयस्याभावात् । तस्माच्छब्दसिद्धानामभिधे
यत्वादीनां क्वचिदप्यर्थे नासिद्धिः । इति हेतोः शाब्दप्रसिद्धिराचार्यस्य ॥ (११६)
एतच्च शाब्दप्रसिद्धिवचनम् (।)
वस्तुबलप्रवृत्तेनानुमानेन प्रसिद्धेष्वर्थेषु विपरीतधर्मो
पस्थापकस्य विरुद्धाव्य
भिचारिणः साधनान्तरस्याभावन्दर्शयति । कस्मादित्याह । एवमी2253दृश्याः शब्द
सिद्धाया योग्यतायाः प्रतीते 2254 स्वभावलिङ्गसमुत्थत्वात् अनुमात्वतः । यथा
शब्दसिद्धा योग्यताऽनुमानसिद्धेति बाध्या सत्वादिहेतुना (।) तथाऽन्योपि
वस्तुबलप्रवृत्तानुमानविषयः समानत्वात् न्यायस्येत्यर्थः । (११७)
अथवाऽचन्द्रःशशी सत्वादिति विप्रति2255पद्यमानं प्रतिपत् प्रति
पादनार्थं लोकस्य
ब्रुवतः शाब्दप्रसिद्धेनासाधारणत्वादनुमानाभाव आचार्येणोच्यते । पारमार्थिकस्य
बाध्यत्वस्याभावात् 2256 । कल्पितं निषेध्यं तच्च पुरुषेच्छामात्राधीनत्वात् सर्व्वत्र
सम्भवतीति सर्व्वस्य चन्द्रशब्दयोग्यतायोगान्न कश्चिदचन्द्रः पक्षोस्ति यत्र वर्त्तमानं
सत्त्वमसाधारणतां जह्या/?/ । एवन्दर्शिते किम्भवतीति चेत् । तेनानुमानाभावाभिधा-
यिना शब्दप्रसिद्धाभिधानेन शब्दसिद्धा प्रतीतिर्व्वस्तुबलप्रवृत्तानुमानतो भिन्नविष-91b
योक्ता भवति । वस्तुविषयं ह्यनुमानं कल्पितगोचरान्तरा शाब्दी प्रतीति
रित्यर्थः ॥ (११८)