एतच्च शाब्दप्रसिद्धिवचनम् (।)
अनुमानप्रसिद्धेषु विरुद्धाव्यभिचारिणः ।
अभावः दर्शयत्येवं प्रतीतेरनुमात्वतः ॥ ११७ ॥
वस्तुबलप्रवृत्तेनानुमानेन प्रसिद्धेष्वर्थेषु विपरीतधर्मो
पस्थापकस्य विरुद्धाव्य
भिचारिणः साधनान्तरस्याभावन्दर्शयति । कस्मादित्याह । एवमी2253दृश्याः शब्द
सिद्धाया योग्यतायाः प्रतीते 2254 स्वभावलिङ्गसमुत्थत्वात् अनुमात्वतः । यथा
शब्दसिद्धा योग्यताऽनुमानसिद्धेति बाध्या सत्वादिहेतुना (।) तथाऽन्योपि
वस्तुबलप्रवृत्तानुमानविषयः समानत्वात् न्यायस्येत्यर्थः । (११७)