अथवाऽचन्द्रःशशी सत्वादिति विप्रति2255पद्यमानं प्रतिपत् प्रति
पादनार्थं लोकस्य
ब्रुवतः शाब्दप्रसिद्धेनासाधारणत्वादनुमानाभाव आचार्येणोच्यते । पारमार्थिकस्य
बाध्यत्वस्याभावात् 2256 । कल्पितं निषेध्यं तच्च पुरुषेच्छामात्राधीनत्वात् सर्व्वत्र
सम्भवतीति सर्व्वस्य चन्द्रशब्दयोग्यतायोगान्न कश्चिदचन्द्रः पक्षोस्ति यत्र वर्त्तमानं
सत्त्वमसाधारणतां जह्या/?/ । एवन्दर्शिते किम्भवतीति चेत् । तेनानुमानाभावाभिधा-
यिना शब्दप्रसिद्धाभिधानेन शब्दसिद्धा प्रतीतिर्व्वस्तुबलप्रवृत्तानुमानतो भिन्नविष-91b
योक्ता भवति । वस्तुविषयं ह्यनुमानं कल्पितगोचरान्तरा शाब्दी प्रतीति
रित्यर्थः ॥ (११८)
अथवा ब्रुवतो लोकस्यानुमाऽभाव उच्यते ।
किन्तेन भिन्नविषया प्रतीतिरनुमानतः ॥ ११८ ॥