454
(ग. वस्तुबलप्रवृत्तमनुमानम्)
तेनानुमानाद् वस्तूनां सदसत्तानुरोधिनः ।
भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति सूचितम् ॥ ११९ ॥
तेन2257 विषयभेदेन वस्तूनां सदसत्तानुरोधिनोऽनुमानात् भिन्नस्य कल्पित
स्यार्थस्य शब्दयोग्यत्वस्य वृत्तिरतद्वशा वस्त्वनायत्ता तस्य पुरुषस्येच्छाजेति सूचितं भवति । (११९)
-
भेददर्शनेपि किं फलमित्याह ।
↩