(ग. वस्तुबलप्रवृत्तमनुमानम्)
तेन2257 विषयभेदेन वस्तूनां सदसत्तानुरोधिनोऽनुमानात् भिन्नस्य कल्पित
स्यार्थस्य शब्दयोग्यत्वस्य वृत्तिरतद्वशा वस्त्वनायत्ता तस्य पुरुषस्येच्छाजेति सूचितं भवति । (११९)
किञ्च (।)
शशिनः सर्व्वजनसिद्धां व्यावहारि
की चन्द्रता चन्द्रशब्दवाच्यतां अनिच्छन् परःकामन्यां प्रतीतिं स वाञ्छति (।) यया वाच्यतासिद्धिः क्वचित् स्यात् । मता
च पारमार्थिकी वाच्यताप्रतीतिर्न क्वचिदस्ति । वस्तुतः सर्व्वस्यावाच्यता
प्रदर्शनात् । कल्पिवाच्यताप्रतीतिस्तु पुरुषेच्छामात्रप्रभवत्वात् सर्व्वत्राव्याहतैव ।
अतः सर्व्वस्य चन्द्रशब्दवाच्यतायोगात् सपक्षो नास्तीति तं चन्द्रतापलापिनं वादिनं
प्रति सत्वं लिङ्ग
मदृष्टान्तमसाधारणमुक्तमाचार्येण न तु चन्द्रस्यैकस्यान्यत्रासम्भवात्
सपक्षविपक्षयोरभावादसाधारणत्वमभिप्रेतमा चा र्य स्य । अचन्द्रत्वे साध्ये घटादेः
सपक्षस्य सत्वात् । चन्द्रस्तु विपक्षो मा भूत् (।) तथापि हेतुनिवृत्तिरस्मादव्याहतैव ।
असतोपि हेतुनिवृत्तेः साधनात् । (१२०)
अपिच (।)
अचन्द्रः शशी सत्त्वादित्येतदेवोदाहरणमधिकृत्येदं शब्दवा
च्यत्वप्रतिक्षेप
हेतोरसाधारणत्वं नोच्यते । लक्षणत्वात् 2258 । लक्षणेन हि लक्ष्यं व्याप्तं दर्शनीयं
न च द्वितीयचन्द्राभावेनोसाधरणतोक्तिरुदाहरणान्तरं व्याप्नोति । यथा वा
चन्द्रतायाः प्रतीत्या बाधेष्यते तथाऽधात्री वृक्षः सत्त्वात् 2259 घटादिवदित्युदाहरणोक्तौ