किञ्च (।)

चन्द्रतां शशिनोऽनिच्छान् कां प्रतीति स वाञ्छति ।
इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम् ॥ १२० ॥

शशिनः सर्व्वजनसिद्धां व्यावहारि
की चन्द्रता चन्द्रशब्दवाच्यतां अनिच्छन् परःकामन्यां प्रतीतिं स वाञ्छति (।) यया वाच्यतासिद्धिः क्वचित् स्यात् । मता
च पारमार्थिकी वाच्यताप्रतीतिर्न क्वचिदस्ति । वस्तुतः सर्व्वस्यावाच्यता
प्रदर्शनात् । कल्पिवाच्यताप्रतीतिस्तु पुरुषेच्छामात्रप्रभवत्वात् सर्व्वत्राव्याहतैव ।
अतः सर्व्वस्य चन्द्रशब्दवाच्यतायोगात् सपक्षो नास्तीति तं चन्द्रतापलापिनं वादिनं
प्रति सत्वं लिङ्ग
मदृष्टान्तमसाधारण
मुक्तमाचार्येण न तु चन्द्रस्यैकस्यान्यत्रासम्भवात्
सपक्षविपक्षयोरभावादसाधारणत्वमभिप्रेतमा चा र्य स्य । अचन्द्रत्वे साध्ये घटादेः
सपक्षस्य सत्वात् । चन्द्रस्तु विपक्षो मा भूत् (।) तथापि हेतुनिवृत्तिरस्मादव्याहतैव ।
असतोपि हेतुनिवृत्तेः साधनात् । (१२०)