अपिच (।)
अचन्द्रः शशी सत्त्वादित्येतदेवोदाहरणमधिकृत्येदं शब्दवा
च्यत्वप्रतिक्षेप
हेतोरसाधारणत्वं नोच्यते । लक्षणत्वात् 2258 । लक्षणेन हि लक्ष्यं व्याप्तं दर्शनीयं
न च द्वितीयचन्द्राभावेनोसाधरणतोक्तिरुदाहरणान्तरं व्याप्नोति । यथा वा
चन्द्रतायाः प्रतीत्या बाधेष्यते तथाऽधात्री वृक्षः सत्त्वात् 2259 घटादिवदित्युदाहरणोक्तौ
455 सर्व्वलोकसिद्धया पुरुषेच्छाधीनया घटादावपि वृक्षशब्दयोग्यताप्रतीत्या सपक्षाभावे- नासाधार
णत्वाद् वृक्षशब्दवाच्यत्वाभावस्य साधनात् (।) यथोक्तमेवा
साधारणत्वमाचार्यस्येष्टं । (१२१)