455 सर्व्वलोकसिद्धया पुरुषेच्छाधीनया घटादावपि वृक्षशब्दयोग्यताप्रतीत्या सपक्षाभावे- नासाधार
णत्वाद् वृक्षशब्दवाच्यत्वाभावस्य साधनात् (।) यथोक्तमेवा
साधारणत्वमाचार्यस्येष्टं । (१२१)
यदप्यु2260च्यते द्वितीयस्य चन्द्रस्याभावादसाधारणतेति तत्राह (।)
लोके कर्प्पूररजतादिषु गान्धिकवाचिकादीनां समयाद्वर्त्तमानस्य दृष्टत्वा- दत्राचन्द्रः शशी सत्त्वादित्युदाहरणे हेतोरसाधारणतापि का वा । यदि द्वितीय
चन्द्रो न भवेत् । एवमसाधारणता
स्याद् वस्तुत्वस्य । (१२२)
स्यादेतत् (।) तत्समयादपि वर्त्तमानस्य चन्द्रत्वादेर्न शब्दवाच्यता । ततो
यथा न वह्निशब्दवाच्यता कर्प्पूरस्य तथा चन्द्रशब्दवाच्यता च न स्यादित्य
साधारणतैवेत्याह ।
तस्यैवंवादिनः सत्यपि सामयिके चन्द्रे क्वचिदर्थविशेषे चन्द्रशब्दवाच्यत्वं
यदि सिध्येत् न तु सर्व्वत्र कर्पूररजतादौ तदा तच्चन्द्रशब्दवाच्यत्व वस्तुबलेन सिद्धं स्यात् । न त्वेवं दृश्य
ते सर्व्वस्य कर्पूरादेश्च शब्दाभिधेयत्वदर्शनात् ।
अथ यत्रैव कल्प्यते चन्द्रत्वं तदेव तच्छब्दवाच्यं प्रतीयत इति तथाभ्युपगम्यते
तदा ।
सामयिके चन्द्रत्वे क्वापि प्रतीत्या सिद्धस्य चन्द्रशब्दवाच्यत्वस्योपगमे ।
शशिन्यपि तच्छब्दवाच्यस्यानिवारणं । (१२३)
शुक्लतादिके निमित्तभूते वस्तुनि । तस्य चन्द्रशब्दाभिधेयत्वस्य सिद्धस्य
शशिन्यपि निमित्तसद्भावादनिवारणं
तस्य निमित्तभूतस्य वस्तुनः शशिन्यभावे तु92a चन्द्रशब्दवाच्यत्वस्य वस्तुत्वाद्धेतोर्व्वारणेपि न किञ्चिद् दुष्यति । निमित्ताभावे
-
न्या य मु ख टीकाकारमुपक्षिपति ।
↩