स्यादेतत् (।) तत्समयादपि वर्त्तमानस्य चन्द्रत्वादेर्न शब्दवाच्यता । ततो
यथा न वह्निशब्दवाच्यता कर्प्पूरस्य तथा चन्द्रशब्दवाच्यता च न स्यादित्य
साधारणतैवेत्याह ।

यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तुबलेन तत् ।

तस्यैवंवादिनः सत्यपि सामयिके चन्द्रे क्वचिदर्थविशेषे चन्द्रशब्दवाच्यत्वं
यदि सिध्येत् न तु सर्व्वत्र कर्पूररजतादौ तदा तच्चन्द्रशब्दवाच्यत्व वस्तुबलेन सिद्धं स्यात् । न त्वेवं दृश्य
ते सर्व्वस्य कर्पूरादेश्च शब्दाभिधेयत्वदर्शनात् ।

अथ यत्रैव कल्प्यते चन्द्रत्वं तदेव तच्छब्दवाच्यं प्रतीयत इति तथाभ्युपगम्यते
तदा ।

प्रतीतिसिद्धपगमेऽशशिन्यप्यनिवारणम् ॥ १२३ ॥

सामयिके चन्द्रत्वे क्वापि प्रतीत्या सिद्धस्य चन्द्रशब्दवाच्यत्वस्योपगमे ।
शिन्यपि तच्छब्दवाच्यस्यानिवारणं । (१२३)