तस्य वस्तुनि सिद्धस्य शशिन्यप्यनिवारणम् ।
तद्वस्त्त्वभावे शशिनि वारणेपि न दुष्यति ॥ १२४ ॥

शुक्लतादिके निमित्तभूते वस्तुनि । तस्य चन्द्रशब्दाभिधेयत्वस्य सिद्धस्य शशिन्यपि निमित्तसद्भावादनिवारणं
तस्य निमित्तभूतस्य वस्तुनः शशिन्यभावे तु92a चन्द्रशब्दवाच्यत्वस्य वस्तुत्वाद्धेतोर्व्वारणेपि न किञ्चिद् दुष्यति । निमित्ताभावे
456 नैमित्तिकाभावास्येष्टत्वात् । सामयिकन्तु सर्व्वत्राशक्यवारणमिति तच्छब्दयोग्य
ताप्यबाध्या
 । (१२४)