456 नैमित्तिकाभावास्येष्टत्वात् । सामयिकन्तु सर्व्वत्राशक्यवारणमिति तच्छब्दयोग्य
ताप्यबाध्या
 । (१२४)

तस्मादवस्तुनियतसंकेतबलभाविनाम् ।
योग्याः पदार्था धर्माणामिच्छाया अनिरोधानात् ॥ १२५ ॥

तस्मादवस्तुनियतो वस्तुन्यनियत इच्छाधीनत्वात् संकेतस्तस्य बलाद् भाविनां
धर्म्माणां
वाच्यत्वादीनां पदार्थाः सर्व्वे धर्मित्वेन योग्याः । इच्छातः पुंसः केनचिद्
वाच्यत्वाद्युत्था

पिकाया इच्छाया अनिरोधात् । (१२५)

तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा ।
प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा ॥ १२६ ॥

तामिष्टशब्दाभिधेयत्वयोग्यतां पदार्थानां सत्त्वादिकाद्धेतोर्व्विरुन्धानं प्रति
क्षिपन्तं
वादिनं प्रतीत्याख्या प्रतीतिसंज्ञिताऽनुमा प्रतिहन्ति । संकेताप्रतिषे
धजेति
स्वभावलिङ्गजत्वमाह । इच्छाधीनत्वात् योग्यताविषये विपरीतधर्मो
पस्थानमाह । प्रयोगः पुनः (।) यः पुरुषेच्छानुभिधायी स सर्व्वत्र सम्भवी तद्यथा
विकल्पः पुरुषेच्छानुविधा
यि चार्थेष्विष्टशब्दाभिधेयत्वमिति । (१२६)

शब्दानामर्थनियमः संकेतानुविधायिनाम् ।
नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते ॥ १२७ ॥

अनेन चेष्टशब्दाभिधेयत्वयोग्यताप्रतिषेधबाधनेन दर्शितेन शब्दानां संके
तानुविधायि
नामर्थनियमः प्रतिनियतवाचकत्वं नेत्युक्तम्भवति । ततोस्य स्वेच्छा
कल्पितोऽर्थे एषां शब्दानां वाचकत्वस्य प्रतिषेधः सत्त्वादिहेतोः क्रियमाणो
विरुध्य2261ते
 । (१२७)

यद्येवन्तदा क्वचिदर्थे निषेधं कुर्व्वता शब्दो बाध्यः स्यात् । ततश्च गुणा

दिकं निमित्तभूतं गुणादि2262शब्दानां गुणगुणिसम्बन्धादिपारमार्थिकमर्थं गुणि
शब्दादीनां निषेधन् बाध्यः स्यादित्याह । येन कल्पितमर्थं शब्दानां बाधमानः
प्रतिक्षिप्यते । न तु गुणादिकं तेन (।)

नैमित्तिक्याः श्रुतेरर्थमर्थम्वा पारमार्थिकम् ।
शब्दानां प्रतिरुन्धानोऽबाधनार्हो हि वर्ण्णितः ॥ १२८ ॥
  1. प्रतिज्ञादोषो भवति ।

  2. जात्यादि ।