तस्मादवस्तुनियतसंकेतबलभाविनाम् ।
योग्याः पदार्था धर्माणामिच्छाया अनिरोधानात् ॥ १२५ ॥
तस्मादवस्तुनियतो वस्तुन्यनियत इच्छाधीनत्वात् संकेतस्तस्य बलाद् भाविनां
धर्म्माणां वाच्यत्वादीनां पदार्थाः सर्व्वे धर्मित्वेन योग्याः । इच्छातः पुंसः केनचिद्
वाच्यत्वाद्युत्था
पिकाया इच्छाया अनिरोधात् । (१२५)