तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा ।
प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा ॥ १२६ ॥
तामिष्टशब्दाभिधेयत्वयोग्यतां पदार्थानां सत्त्वादिकाद्धेतोर्व्विरुन्धानं प्रति
क्षिपन्तं वादिनं प्रतीत्याख्या प्रतीतिसंज्ञिताऽनुमा प्रतिहन्ति । संकेताप्रतिषे
धजेति स्वभावलिङ्गजत्वमाह । इच्छाधीनत्वात् योग्यताविषये विपरीतधर्मो
पस्थानमाह । प्रयोगः पुनः (।) यः पुरुषेच्छानुभिधायी स सर्व्वत्र सम्भवी तद्यथा
विकल्पः पुरुषेच्छानुविधा
यि चार्थेष्विष्टशब्दाभिधेयत्वमिति । (१२६)