096
तदप्यस्य स्नेहोऽवस्थान्तरेषणात् ।
द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः ॥ २५२ ॥
यस्मात्तदापि निर्व्वेदावस्थायां स्नेहोस्यास्ति न च विरक्तस्य स्नेहसम्भवः ।
तदस्तित्वमेव कुत इति चेत् । अवस्थान्तरस्य दुःखहेतोर्निर्व्वेदकारिण्यां अवस्थायां
विलक्षणस्यैषणात् । न हि स्नेहमन्तरेणैकत्यागादपरवाञ्छा । द्वेषस्य दुःखस्य योनि
त्वात् । स निर्व्वेदाख्यो द्वेषो यावद् दुःखमनुवर्तते तावन्मात्रं तावत्कालपरिमाणं
संस्थितिरस्ये
ति (। २५२)