096
तदप्यस्य स्नेहोऽवस्थान्तरेषणात् ।
द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः ॥ २५२ ॥

यस्मात्तदापि निर्व्वेदावस्थायां स्नेहोस्यास्ति न च विरक्तस्य स्नेहसम्भवः ।
तदस्तित्वमेव कुत इति चेत् । अवस्थान्तरस्य दुःखहेतोर्निर्व्वेदकारिण्यां अवस्थायां
विलक्षणस्यैषणात् । न हि स्नेहमन्तरेणैकत्यागादपरवाञ्छा । द्वेषस्य दुःखस्य योनि
त्वात् । स
निर्व्वेदाख्यो द्वेषो यावद् दुःखमनुवर्तते तावन्मात्रं तावत्कालपरिमाणं
संस्थितिरस्ये
ति (। २५२)

(छ) हानोपादानहानित औदासीन्यम्

तस्मिन् निवृत्तेप्रकृतिं स्वामेव भजते पुनः ।

तथा तस्मिन् दुःखे कारणनिरोधान्निवृत्ते पुनः स्वामेव प्रकृतिं विषयेष्वविराग
लक्षणां भजते सत्त्वदर्शी ।

कीदृशं तर्हि वैराग्यं युक्तं499 ।

औदासीन्यं तु सर्वत्र त्यागोपादानहानितः ॥ २५३ ॥
वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते ।

सत्त्वदृष्ट्यभावात् सर्व्वत्र विष500ये प्रतिकूलत्वानुकूलत्वाभ्यां अनध्यवसिते
त्यागोप501दानयोर्हानितो (२५३) वासीचन्द्रनकल्पनां
वासीचन्दनयोः कल्पाः
सदृशा ये वासीचन्दनकल्पा वा ये तेषां साक्षात्कृतनैरात्म्यतत्त्वानामौदासीन्यमनु
नयप्रतिघ
रहितत्वं पुनर्वैराग्यं नाम आगमप्रसिद्धं कथ्यते ।

I. संस्कारदुःखभावात् दुःखभावना

ननु यदि दुःखभावनया स्नेहादिहान्या न मुक्तिः तत्कथं भगवतोक्ता दुःख
भावनेत्याह (।)

संस्कारदुःखतां मत्वा कथिता दुःखभावना ॥ २५४ ॥

संस्कारदुःखतां मत्त्वा कथिता दुःखभावना । न हि दुःखदुःखतामभिसन्धाय
तद्भावनोक्ता किन्तर्हि संस्कारदुःखतां । (२५४)

a. सैव किमुच्यत इत्याह (।)

सा च नः प्रत्ययोत्पत्तिः सा नैरात्म्यदृगाश्रयः ।
  1. आह ।

  2. आत्मभावे तदुपकरणे च ।

  3. उद्वेगोहं ममेति ग्रहश्च ।