097

सा च संस्कारदुःखता नोऽस्माकं सौ ग ता नां प्रत्ययोत्पत्तिर्हेतुपारतन्त्र्यं । सा प्रत्ययोत्पत्तिर्नैरात्म्यस्य502 दृशो
र्शनस्याश्रयः कारणं ।

18b

b. तथा हि हेतुफलभूताः क्षणक्षयिणो भावाः प्रवृत्तयो नात्मरूपा नाप्यात्माधि
ष्ठिता इति संस्कारदुःखताभावना नैरात्म्यदर्शनानुकूला सैव च मुक्तिहेतुरित्याह(।)

मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः ॥ २५५ ॥

मुक्तिस्तु शून्यताया निरात्मताया दृष्टेः । शेषस्य नित्यदुःखादेर्भावनास्तदर्था निरात्मदर्शनार्थाः । (२५५)

II. अनित्यदुःखानात्मता

अनित्यात् प्राह तेनैव दुःखं; दुःखान्निरात्मताम् ॥

तेनैवानित्यदुःखभावनायाः शून्यताभावनानुकूलत्वेन भगवाननित्यादनित्यत्वाद्
दुःखं सं
सारिस्कन्धानां हा (नाद्) दुःखाद् दुःखत्वान्निरात्मतामाह (।) तद्यथा रूपं भिक्षवो नित्यमनित्यं वा । अनित्यं भदन्त । यदनित्यं तद् दुःखं सुखम्वा ।
दुःखम्भदन्त । यदनित्यं दुःखं विपरिणाम धर्मकं कल्प्यन्नु तदेवं द्रष्टुः एतन्मम एषोह
मस्मि एष मे आत्मेति । नो हीदं भदन्त ।
503 इत्येवं हेतुफलभाव504नेनात्मदर्शनमेव मुक्ते
रुपाय इति कथितं । तदेवाचार्येणोक्तं (।) उक्तो मार्गः तदभ्यासादाश्रयः परिवर्तत
इति नास्ति विरो
धः ।

यः पुनरात्मदर्शी सोऽविरक्त एव ।

अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः ॥ २५६ ॥

अविरक्तश्च तृष्णावान् । हान्युपादानलक्षणान् कर्मप्रसवहेतून् समा
श्रितः
 । (२५६)

सोऽमुक्तः क्लेशकर्मभ्यां संसारी नाम तादृशः ॥
आत्मीयमेव यो नेच्छेद् भोक्ताप्यस्य न विद्यते ॥ २५७ ॥

सोऽमुक्तः क्लेशकर्मभ्यां आत्मदर्शनप्रवृत्तिकारणकाभ्यां संसारी नाम प्रसिद्धः
तादृशः
 । तदेवमात्मनि सति नात्मीयत्यागः । तथाऽमुक्तिरित्युक्तं । भवतु वा
ऽत्मीयत्यागस्तथाप्यात्मीयमेव यो नेच्छेत्तन्मतेऽस्यात्मीयस्य भोक्ता न विद्यते ।
भोग्यापेक्षत्वात् भोक्तृत्वस्य
(२५७) ।

  1. सापि न साक्षाद्भाविनामुक्तमिति ।

  2. मज्झिमनिकाये महापुण्णमसुत्तन्ते (१०९) ।

  3. हेतुफलभावकथनेनात्मदर्शनमेव ।