नालं शक्तो बीजादिषु संसिद्धो विधिर्दीक्षायाः पुंसामजन्मने । (२६०)
तैलाभ्यङ्गाग्निदाहदेरपि संसारन्मुक्तिप्रसङ्गतः । तैलेनाभ्यक्तं बीजमग्निना
च स्पृष्टं न प्ररोहति506 तथा पुरुषो
पि तैलाभ्यङ्गाग्निदाहाभ्यां न पुनर्भवेत् ।
I. आत्मनोऽमूर्त्तत्वे न पापगौरवलाघवम्
a. स्यादेतत् । दीक्षायाः प्राक् पापगुरोरुत्तरं तुलया लाघवात् । पापाभावोप
लम्भ आगमप्रामाण्यनिबन्धनमित्याह (।)
प्राग् गुरोर्लाघवात् पश्चान्न पापहरणं कृतं । दीक्षायाः प्राग् गुरोः पश्चाल्लाघ
वात् दीक्षया न पापहरणस्य दीक्षितस्य किन्तु गौरवमेवास्य कृतं सत् (२६१)
मा भूदिति कस्मान्न कल्प्यते । लाघवं हि गौरवविरोधि दृश्यमानं तदभावमेव गम
येत् । न पापभावं । पापमेव गुर्विति
चेत् । न पापं गुरु । अमूर्त्तितो मूर्त्तत्वा
भावात् । भूर्त्तधर्मो हि गौरवं कथं पापस्यामूर्त्तस्य स्यात् ।
ननु त्वत्पक्षेऽपि नैरात्म्यदर्शने भूतेपि कस्मान्न जन्मेत्याह (।)
मिथ्याज्ञानं दुःखे विपर्यासमतिः । तदुद्भूतस्तर्षो मिथ्याज्ञानप्रभवा तृष्णा ।
ताभ्यां संप्रयुक्ते चेतने । तद्वशाद्या हीनस्थानगतिस्तज्जन्मेत्युक्तं । अतस्तच्छित् ।
अज्ञानतृष्णाच्छेदको नैरात्म्यदर्शी न जातये कारणाभावात् ।
तदेवाह (।)
तयो
रेवाज्ञानतृष्णयोर्हि सामर्थ्यं जातौ जन्मनिमित्तं तन्मात्रेण507 भावतः ॥
ते च दीक्षितस्यापि स्त इति स जायते । (२६३)