098

III. संसारी क्लेशकर्मभ्याममुक्तः

(ज) सत्कायदृष्टिर्मूलम्

आत्माऽपि न तदा तस्य क्रियाभोगौ हि लक्षणम् ।
तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् ॥ २५८ ॥
उत्खातमूलां कुरुत सत्वदृष्टिं मुमुक्षवः ।

भोक्त्रभावे आत्मापि नास्तीति प्रसङ्गात् । कुत इति चेत् । हिर्यस्मादस्या
त्मनः क्रियाभोगौ लक्षणं कर्त्ता भोक्ता चात्मोच्यते (।) यदा चात्मीयमेव
नास्ति । किमर्थं कर्म कर्तव्यं किम्वा भोक्तव्यं । कर्तृत्वभोक्तृत्वाभावादात्मा
भाव एव स्वीकृतः स्यात् । तस्मात्सत्यात्मनि आत्मीयं तत्स्नेहादिसत्त्वेऽनुच्छेद
एवं संसारस्य । तस्मात् संसारादुद्विजमाना मुमुक्षव उ505त्खातमूलामुद्ध्ृतकारणां
सत्त्वदृष्टिं कु
रुत ।

ननु किमस्या मूलमित्याह (।)

अनादिसन्तानस्तुल्यजातीयः पूर्व्वपूर्व्वसत्त्वदर्शनस्वभावोऽविद्यारूपो बीजं कारणं यस्यास्तां (२५८) सत्त्वदर्शनमविद्यास्वभावं पूर्व्वपूर्व्वमुत्तरोत्तरस्य सत्त्व
दर्शनस्य हेतुरित्यर्थः ।

(आगममात्रेण न मुक्तिः)

ननूक्तमीश्वरेणागमेऽस्त्यात्मा मोक्षश्चास्य दीक्षाविधिनेति । तत्किमत्र
चिन्त्यते तत्कारणा वा धीविधिस्तं बाधते कथमित्यादिनोक्तत्वात् (।) अत्राह (।)

आगमस्य तथाभावनिबन्धनमपश्यताम् ॥ २५९ ॥
मुक्तिमागममात्रेण वदन्न परितोषकृद् ।

आगमस्य तथाभावस्य प्रतिपादितार्थसम्वादित्वस्य निबन्धनं हेतुमपश्यतां
 ।
(२५९) मुमुक्षूणामागममात्रेण मुक्तिं वदन्परितोषकृद् भवति ।

दीक्षाऽकिञ्चित्करी---

नन्वस्ति प्रामाण्यनिबन्धनमागमस्य दीक्षाविधिस्पृष्टस्यानारोहधर्मकत्वदर्शनं ।
यथा हि बीजं दीक्षाविधिस्पृष्टं न प्ररोहति तथा पुमानपि दीक्षितो न
पुनर्भवतीत्याह (।)

  1. यथोक्तमिह यावच्चतुर्थः श्रमणः शून्याः परप्रवादाः श्रमणैर्ब्राह्मणैर्व्वा ।