c. ननु कर्मापि जन्मकारणमिष्टं तत्कथमज्ञानतृष्णे एवोक्ते इत्याह (।)

ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणम् ॥
गतिप्रतीत्योःकरणान्याश्रयस्तान्यदृष्टतः ॥ २६४ ॥
अदृष्टनाशादगतिः तत्संस्कारो न चेतना ॥

ते चेतने मिथ्याज्ञानतदुद्भूतर्षसंचेतने स्वयमात्मना पूर्व्वशुभाशुभकर्मसँस्कार
सहाये कर्म कर्मस्वभावे इत्यखण्डमन्यूनं जन्मकारणमुक्तमिति न विरोधः । स्यादे
तद्(।) गतिप्रतीत्योरभिमतदेशगमनस्य ज्ञानस्य च करणानीन्द्रियाणि । आश्रयः कारणं
इन्द्रियेभ्य उत्पन्नेन ज्ञानेन विषयं परिच्छिद्य प्रवृत्तेः । तानीन्द्रियाणि
चादृष्टतः शुभादिलक्षणाद् (२६४) । दीक्षया चादृष्टनाशात्तत्कार्याणां कारणा
नामनुत्पत्तेर्व्विषयस्य परिच्छेदतृष्णयोरभावात् अगतिर्जन्मस्थान इति नास्ति
पुनर्भवो दीक्षितस्य (।) तददृ508ष्टञ्चात्मसंस्कारो न चे509तना स्यात् दीक्षितस्यापि
सास्तीति जन्मापि510 स्यात ।

b. अत्रा511ह (।)

सामर्थ्यं करणोत्पत्तेर्भावाभावानुवृत्तितः ॥ २६५ ॥
दृष्टं बुद्धेर्न चान्यस्या सन्ति तानि नयन्ति किम् ।

बुद्धे512र्भावाभावानुवृत्तितोऽन्वयव्यतिरेकानुवृत्त्या करणानामेक
स्माद्देशाद
513रदेशसम्बद्धानामुत्पत्तेः कारणात्सामार्थ्यं बुद्धेरिन्द्रियजननं प्रति(२६५)दृष्टं नान्यस्य संस्काररूपस्यादृष्टस्य तदन्वयव्यतिरेकानुविधानानुपलम्भात् । सा बुद्धि
श्चास्ति देशान्तरसम्बद्धकरणजनिका दीक्षितस्या तत्किन्तानि करणानि गर्भस्थानन्न
यन्ति गच्छन्ति हेत्ववैकल्याद् भवितव्यं (२६६) ।

c. गमनेनावश्यं दीक्षयोपहता बुद्धिर्देशान्तरं नेतुमिन्द्रियाण्यशक्ता चेत् ।

धारणप्रेरणक्षोभनिरोधाश्चेतनावशाः ॥ २६६ ॥
न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरम् ।
अथ बुद्धेस्तदाभावान्न स्युः सन्धीयते मलैः ॥ २६७ ॥

नन्वेवन्तस्य मुमुक्षोर्दी
क्षानन्तरं बुद्धेरसामर्थ्ये तेषामिन्द्रियाणां स्वविषये
व्यवस्थापनं धारणं । तत्रा514योजनं प्रेरणं । क्षोभो515 विकारः । स्वविषयान्निवर्तनं
101 निरोधः । ते बुद्धिनिबन्धनवृत्तयो न स्युः ॥ अथ बुद्धेस्तदा मरणकालेऽभावान्न स्युः धारणप्रेरणादयः ।

अत्राह । सन्धीयते जन्यते मलैर्मिथ्याज्ञानैर्मिथ्याज्ञानात्मस्नेहादिभिर्बुद्धिर्मरण
समयेपीति कुतो बुद्ध्यभावः । (२६७)

बुद्धेस्तेषामसामर्थ्ये जीवतोऽपि स्युरक्षमाः ॥
निर्ह्रासातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः ॥ २६८ ॥
दोषाः स्वबीजसन्ताना दीक्षितेऽप्यनिवारिताः ॥

अथ मला अपि दीक्षयोपहतसामर्थ्या न बुद्धि सन्द
धति । तदा तेषां मला
नामसामर्थ्ये स्वीक्रियमाणे जीवतोपि दीक्षितस्य मला बुद्धिसन्धानं प्रत्यक्षमाः स्युः ।
दीक्षा मलानां बाधिकेत्यपि मिथ्या । तथा प्रतिपक्षस्य नैरात्म्यभावनायाः स्वपक्षस्या
योनिशोमनस्कारस्याभ्यासात् पुष्टौ सत्यां दोषाणां यथाक्रमं नर्ह्रासादपचयात् ।
अतिशयादभिवृद्धे (२६८) र्दोषाः स्वकीयाद् बीजात्तुल्यजातीयकारणात् सन्तानो येषां ते दीक्षितेपि दोषबीजे
परिपोषवत्यनिवारिताः ।

II. आत्मनो नित्यत्वे न पुनर्जन्म

स्यादेतद् (।) आत्मनोपि गर्भगतकरणादिजनने व्यापारः स एव दीक्षया निरुद्ध
इति न पुनर्जन्मेत्याह (।)

नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्विरुध्यते ॥ २६९ ॥
क्रियायामक्रियायाञ्च क्रिययोः सदृशात्मनः ॥
ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयोः ॥ २७० ॥

नित्यस्यानुपकार्यतया निरपेक्षत्वात् करणादीनां क्रमे516णोत्पत्तिर्व्विरुध्यते
समत्वहेतुसद्भावात् सकृदुत्पादप्रसक्तेः । (२६९) इन्द्रियादेः क्रियायामक्रियायाञ्च
सदृशात्मनस्तुल्यरूपस्यात्मनस्तयोः कालयोस्ते ते विरुध्येते ।

यद्यसौ कार्यकरणस्वभावः
तदा कार्यादेव क्रियाविरामोस्य विरुध्यते ।
एवमक्रियायामपि वाच्यं । किञ्च (।) आत्मनः कर्मकर्तृता हेतुत्वं भोक्तृत्वञ्च फलं ते
चात्मन एकरूपस्य रूपे इति हेतुफलाभेदप्रसङ्गः । व्यतिरेको भेदस्तत आत्मनस्तयोः कर्तृ त्वभोक्तृत्वयोर्धर्मयोस्ततो नैक्यप्रसङ्ग इति चेत् । (२७० ।)

  1. विंशति कुशलाकुशलाः ।

  2. बौद्धोक्तः ।

  3. इति पराभिप्रायः ।

  4. समाधानं ।

  5. मिथ्याज्ञानतर्षयुतायाः ।

  6. यत्रोत्पत्स्यते ।

  7. आकृष्य नयनं ।

  8. भ्रूभङ्गादि ।

  9. पूर्व्व कृतवान् पश्चादपि गर्भे व्याप्रियत इति क्रमः ।