101 निरोधः । ते बुद्धिनिबन्धनवृत्तयो न स्युः ॥ अथ बुद्धेस्तदा मरणकालेऽभावान्न स्युः धारणप्रेरणादयः ।
अत्राह । सन्धीयते जन्यते मलैर्मिथ्याज्ञानैर्मिथ्याज्ञानात्मस्नेहादिभिर्बुद्धिर्मरण
समयेपीति कुतो बुद्ध्यभावः । (२६७)
अथ मला अपि दीक्षयोपहतसामर्थ्या न बुद्धि सन्द
धति । तदा तेषां मला
नामसामर्थ्ये स्वीक्रियमाणे जीवतोपि दीक्षितस्य मला बुद्धिसन्धानं प्रत्यक्षमाः स्युः ।
दीक्षा मलानां बाधिकेत्यपि मिथ्या । तथा प्रतिपक्षस्य नैरात्म्यभावनायाः स्वपक्षस्या
योनिशोमनस्कारस्याभ्यासात् पुष्टौ सत्यां दोषाणां यथाक्रमं नर्ह्रासादपचयात् ।
अतिशयादभिवृद्धे (२६८) र्दोषाः स्वकीयाद् बीजात्तुल्यजातीयकारणात् सन्तानो येषां ते दीक्षितेपि दोषबीजे
परिपोषवत्यनिवारिताः ।
II. आत्मनो नित्यत्वे न पुनर्जन्म
स्यादेतद् (।) आत्मनोपि गर्भगतकरणादिजनने व्यापारः स एव दीक्षया निरुद्ध
इति न पुनर्जन्मेत्याह (।)
नित्यस्यानुपकार्यतया निरपेक्षत्वात् करणादीनां क्रमे516णोत्पत्तिर्व्विरुध्यते
समत्वहेतुसद्भावात् सकृदुत्पादप्रसक्तेः । (२६९) इन्द्रियादेः क्रियायामक्रियायाञ्च
सदृशात्मनस्तुल्यरूपस्यात्मनस्तयोः कालयोस्ते ते विरुध्येते ।
यद्यसौ कार्यकरणस्वभावः
तदा कार्यादेव क्रियाविरामोस्य विरुध्यते ।
एवमक्रियायामपि वाच्यं । किञ्च (।) आत्मनः कर्मकर्तृता हेतुत्वं भोक्तृत्वञ्च फलं ते
चात्मन एकरूपस्य रूपे इति हेतुफलाभेदप्रसङ्गः । व्यतिरेको भेदस्तत आत्मनस्तयोः कर्तृ त्वभोक्तृत्वयोर्धर्मयोस्ततो नैक्यप्रसङ्ग इति चेत् । (२७० ।)
-
पूर्व्व कृतवान् पश्चादपि गर्भे व्याप्रियत इति क्रमः ।
↩