III. नैरात्म्ये स्मृतिसंगतिः
एवं कर्तृ त्वभोक्तृत्वाहानिः स्यात् । आत्मनोऽतत्स्वभावत्वात् । तत्सम्बन्धात्
कर्ता भोक्ता च । अनुपकृतस्य सम्बन्धित्वेऽति
प्रसङ्गात् उपकृतत्वं वेदितव्यं
तच्चाशक्यसाधनं यस्मान्नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च न सिध्यति ।
ननु यद्यात्मा नास्ति । तदाऽन्येनानुभूतं कर्म च कृतमन्यः स्मरति भुडत्क्ते
फलमिति स्यात्तथा चातिप्रसङ्ग इत्याह (।)
अन्यस्य स्मरणभोगादिप्रसङ्गाश्च न बाधका भवन्ति (२७१) अस्मृतेः ।
कस्यचित् स्मर्त्तुरभावात् । एवं भोगोपि नास्ति भोक्त्रभावात् । तेन हि तस्मात्
19b स्मर्त्रभावात्
कारणाद्विषयाणामनुभूतेः सकाशात् स्मृतिरेव स्मृतं तस्योद्भवः ।
वस्तुधर्मो ह्येष यदनुभवः पटीयान् स्मरणबीजाधानद्वारेण स्मरणं जनयति ।
शुभाशुभचेतनाश्च संस्कारा भोगाकारं सम्विदं प्रवर्तयन्ति (।) तत्किं स्मर्तृ
भोक्तृदुर्ग्रहेण । तत्तदाकारः प्रतीत्यसमुत्पन्नो बुद्धिप्रबन्ध एव केवलो न तु संसारी
नाम कश्चित् ॥
h. यदि नास्त्यात्मा कथं स कोपदृष्टिः संसा
रप्रवृत्तिर्व्वेत्याह (।)
स्थिर517मक्षणिकं सुखं त्रिदुःखताविपरीतं ममेत्यात्मीयमहमित्यात्माहं
कारश्चेति दुःखसत्यस्य विपरीता आकारा इत्याद्यान् प्रति सत्यं518 चतुरः कृत्वा
षोडशाकारान्-भूतान् प्राक् यथोक्तभूताकारविपरीतान् सत्यचतुष्टये (२७२)
ऽरोपयतीति भ्रान्तिरेव सत्कायदृष्टिः स्वबीजप्रभवा । आरो519प्य च किञ्चित्
स्वसूखसाधनञ्च मन्यमानस्तदर्थं परितृष्यति । तृष्णया च जन्म
स्थानोपांदानमिति
संसारप्रवृत्तिः ।