III. नैरात्म्ये स्मृतिसंगतिः
एवं कर्तृ त्वभोक्तृत्वाहानिः स्यात् । आत्मनोऽतत्स्वभावत्वात् । तत्सम्बन्धात्
कर्ता भोक्ता च । अनुपकृतस्य सम्बन्धित्वेऽति
प्रसङ्गात् उपकृतत्वं वेदितव्यं
तच्चाशक्यसाधनं यस्मान्नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च न सिध्यति ।
ननु यद्यात्मा नास्ति । तदाऽन्येनानुभूतं कर्म च कृतमन्यः स्मरति भुडत्क्ते
फलमिति स्यात्तथा चातिप्रसङ्ग इत्याह (।)
अन्यस्य स्मरणभोगादिप्रसङ्गाश्च न बाधका भवन्ति (२७१) अस्मृतेः ।
कस्यचित् स्मर्त्तुरभावात् । एवं भोगोपि नास्ति भोक्त्रभावात् । तेन हि तस्मात्
19b स्मर्त्रभावात्
कारणाद्विषयाणामनुभूतेः सकाशात् स्मृतिरेव स्मृतं तस्योद्भवः ।
वस्तुधर्मो ह्येष यदनुभवः पटीयान् स्मरणबीजाधानद्वारेण स्मरणं जनयति ।
शुभाशुभचेतनाश्च संस्कारा भोगाकारं सम्विदं प्रवर्तयन्ति (।) तत्किं स्मर्तृ
भोक्तृदुर्ग्रहेण । तत्तदाकारः प्रतीत्यसमुत्पन्नो बुद्धिप्रबन्ध एव केवलो न तु संसारी
नाम कश्चित् ॥
h. यदि नास्त्यात्मा कथं स कोपदृष्टिः संसा
रप्रवृत्तिर्व्वेत्याह (।)
स्थिर517मक्षणिकं सुखं त्रिदुःखताविपरीतं ममेत्यात्मीयमहमित्यात्माहं
कारश्चेति दुःखसत्यस्य विपरीता आकारा इत्याद्यान् प्रति सत्यं518 चतुरः कृत्वा
षोडशाकारान्-भूतान् प्राक् यथोक्तभूताकारविपरीतान् सत्यचतुष्टये (२७२)
ऽरोपयतीति भ्रान्तिरेव सत्कायदृष्टिः स्वबीजप्रभवा । आरो519प्य च किञ्चित्
स्वसूखसाधनञ्च मन्यमानस्तदर्थं परितृष्यति । तृष्णया च जन्म
स्थानोपांदानमिति
संसारप्रवृत्तिः ।
घ. सम्यग्दृष्टिनैरात्म्यदृष्टिः
मार्गविपर्ययं संसारहेतुमुक्त्वा मार्गमाह (।)
तत्र सत्यचतुष्टय एव म्यग्दृष्टिर्नेरात्म्यदृष्टिः तद्विरुद्धार्थतत्त्वाकारानु
रोधिनी (२७३) तेषां स्थिरसुखाद्याकाराणामविद्यारोपितानां विरुद्धोऽर्थस्तस्य
तत्त्वानि भूता आकारा अनित्या सुखादयः षोडशाकारास्ताननुरोद्धुं शीलं यस्याः सा तथा सुभाविता सादरनिरन्तरदीर्घकालाभ्यासप्रा
प्तवैशद्या हन्ति तृष्णां जन्म- हेतुं सानुचरां मात्सर्यादिपरिवारां ॥
(क) तृष्णाक्षयात् मोक्षः
ननु तृष्णाक्षयेपि कर्मदेहयोर्जन्महेत्वोर्भावात् जन्म किं न भवतीत्याह (।)
त्रिहेतोस्तृष्णाकर्मदेहहेतोर्जन्मनस्तृष्णायाः क्षये कर्मदेहयोः स्थितयोरपि
नोद्भवः उत्पत्तिर्न भवति (२७४) एकाभावात् हेतुसामग्र्यवैकल्यात् । विना
बीजं क्षित्युदकादिभावेपि नाङ्कुरस्योद्भवः ।
a. ननु त्रिहेतोर्जन्मन एकाभावे
पि चेदनुत्पत्तिः तत्किं क520र्म्मणो देहस्य वा
क्षयो नाभ्यस्यते । परे चाहुः कर्मक्षयान्मुक्तिरिति । अत्राह (।)
असम्भवाद्विपक्षस्य न हानिः कर्मदेहयोरस्ति । (२७५) अशक्यत्वाच्च।
सत्यपि वा विपक्षे521 तदभ्यासाद् देहकर्मनिवृत्तिरशक्यक्रिया । तृष्णायां स्थितायां तत्प्रचितस्यात्मग्रहवतो गर्भस्थानपरिग्रहे सति पुनरुद्भवात् देहस्य शरीरिणश्च तृष्णयैव प्रवृत्त्या सर्व्वत्र शुभाशुभप्रवृत्तेश्च (।)
b. एवन्तर्हि तृष्णा कर्म च क्षपयितव्यं मुमुक्षुणेत्याह (।)
द्वयक्षयार्थं यत्ने क्रियमाणे कर्मक्षये व्यर्थः श्रमः । तृष्णाक्षयमात्राज्जन्माभाव
सिद्धेः सदपि कर्मानुपयुक्तमित्यलं तत्क्षयप्रयासेन । न च कर्मक्षयः प्रति522पक्षाभावात्
शक्य इत्युक्तं ।
(ख) अक्षीणकर्मणो न मोक्षः
सन्तापक्लेशोपभोगात् पूर्व्वार्जितकर्मक्षयोऽपरस्य चाकारणं ततो मुक्तिरित्यपि
मो523हः । (२७६)