103

घ. सम्यग्दृष्टिनैरात्म्यदृष्टिः

मार्गविपर्ययं संसारहेतुमुक्त्वा मार्गमाह (।)

तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी ॥ २७३ ॥
हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता ॥

तत्र सत्यचतुष्टय एव म्यग्दृष्टिर्नेरात्म्यदृष्टिः तद्विरुद्धार्थतत्त्वाकारानु
रोधिनी
(२७३) तेषां स्थिरसुखाद्याकाराणामविद्यारोपितानां विरुद्धोऽर्थस्तस्य
तत्त्वानि भूता आकारा अनित्या सुखादयः षोडशाकारास्ताननुरोद्धुं शीलं यस्याः सा तथा सुभाविता सादरनिरन्तरदीर्घकालाभ्यासप्रा
प्तवैशद्या हन्ति तृष्णां जन्म- हेतुं सानुचरां मात्सर्यादिपरिवारां ॥

(क) तृष्णाक्षयात् मोक्षः

ननु तृष्णाक्षयेपि कर्मदेहयोर्जन्महेत्वोर्भावात् जन्म किं न भवतीत्याह (।)

त्रिहेतोर्नोद्भवः कर्मदेहयोः स्थितयोरपि ॥ २७४ ॥
एकाभावाद् विना बीजं नाङ्कुरस्येव सम्भवः ॥

त्रिहेतोस्तृष्णाकर्मदेहहेतोर्जन्मनस्तृष्णायाः क्षये कर्मदेहयोः स्थितयोरपि
नोद्भवः
उत्पत्तिर्न भवति (२७४) एकाभावात् हेतुसामग्र्‏यवैकल्यात् । विना बीजं क्षित्युदकादिभावेपि नाङ्कुरस्योद्भवः ।

a. ननु त्रिहेतोर्जन्मन एकाभावे
पि चेदनुत्पत्तिः तत्किं क520र्म्मणो देहस्य वा
क्षयो नाभ्यस्यते । परे चाहुः कर्मक्षयान्मुक्तिरिति । अत्राह (।)

असम्भवाद् विपक्षस्य न हानिः कर्मदेहयोः ॥ २७५ ॥
अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् ॥

असम्भवाद्विपक्षस्य न हानिः कर्मदेहयोरस्ति । (२७५) अशक्यत्वाच्च
सत्यपि वा विपक्षे521 तदभ्यासाद् देहकर्मनिवृत्तिरशक्यक्रिया । तृष्णायां स्थितायां तत्प्रचितस्यात्मग्रहवतो गर्भस्थानपरिग्रहे सति पुनरुद्भवात् देहस्य शरीरिणश्च तृष्णयैव प्रवृत्त्या सर्व्वत्र शुभाशुभप्रवृत्तेश्च (।)

b. एवन्तर्हि तृष्णा कर्म च क्षपयितव्यं मुमुक्षुणेत्याह (।)

द्वयक्षयार्थं यत्ने च व्यर्थः कर्मक्षर्थ श्रमः ॥ २७६ ॥
  1. तृष्णामुपेक्ष्याप्रहीणामेव ।

  2. बोद्धमशक्ये ।